SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः ४१ (१) निरन्तरवाद्यवादनयष्टिभिराहतानि वादितानि तथा सङ्ग्रामाङ्गणे वादनयोग्यानि यानि रणतूराणि तेषां निर्घोषैः । (२) विस्तरणशीलैः । (३) युद्धे । (४) राज्ञः । (५) स्तम्भितः । (६) रिपुनृपतिभुजयुगलपरिघाभिमानः । (७) नागेन्द्रगर्व इव । (८) गारुडं स्थावरजङ्गम-विषमविषनिवारणप्रवणमन्त्रतन्त्रादिशास्त्रमधीते वेत्ति वा इति गु( गा )रुडिकस्तस्य । (९) मन्त्रैर्जाङ्गुलीप्रमुखैः ॥२६॥ रणे दण्डहतवाद्यस्वरैर्वैरिहस्तगर्वः स्तम्भितः ॥२६॥ यत्कीर्तिविद्विषदकीर्तिहतप्रतीपा-सृक्पङ्क्तिजह्वतरणिद्रुहिणाङ्गजाभिः । जन्यावनी यंदवनीशशिनस्त्रिवेणी-सङ्गः किाविरभवत्रिंदिवाभिकानाम् ॥२७॥ (१) अकब्बरयशस्तथा अकब्बरवैरिणामपकीतिः तथा अकब्बरव्यापादितवैरिनृपरुधिरराजी( ज्यः) ता एव जगोविष्णोः सूर्यस्य ब्रह्मणः पुत्र्यः । जह्वतनया गङ्गा तरणितनया यमुना, द्रुहिणतनुजा सरस्वती; सरस्वती हि किञ्चिद्रक्तसलिला परसमये वर्ण्यते, ताभिः । (२) सङ्ग्रामभूमी । (३) अकब्बरपातिसाहेः । (४) त्रिवेणीसङ्गो-गङ्गा-यमुना-सरस्वतीसङ्गम इव । (५) प्रकटीभूतः । (६) स्वर्गकाङ्क्षिणाम् ॥२७॥ । स्वयशोरिपुअ(प्व)पयशोवैरिरुधिरैर्जाता गङ्गा यमुना सरस्वती ताभिः कृत्वा यस्य रणभूस्त्रिवेणीसङ्ग इव जाता ॥२७॥ 'यत्सम्प्रहारहतहास्तिकमस्तकान्त-निष्पातिमौक्तिकततिः समरे विरेजे । दन्तावली प्रकटिता शमनेन जन्या-पाने विरोधिरुधिरासवपायिनेव ॥२८॥ (१) यस्य साहेः सङ्ग्रामे व्यापादितानां हस्तिसमूहानां कुम्भस्थलमध्यान्निःसरन्मुक्तामाला। (२) युद्धे ( ३) दशनश्रेणिरिव । (४) यमेन । (५) युद्धरूपमदिरापानस्थाने । (६) शोणितान्येव मदिराः पिबतीत्येवंशीलेन ॥२८॥ रणपानगोष्ठीस्थाने यमेन दन्ताः प्रकटीकृताः ॥२८॥ एतद्भुजारणिसमुत्थमहोहुताश-ज्वालाज्वलद्बहुर ह)लबाहुजवंशराशेः । 'उद्गत्वरैः प्रसृमरैरिव धूमवारै-रांविर्बभूव शिति[मा] दिविषत्पदव्याम् ॥२९॥ (१) अकब्बरनृपभुज एवाऽरणिरग्निकाष्ठं तस्मादुद्भूतो यः प्रताप एव वह्निस्तस्य ज्वालाभिर्भस्मीभवन्तो ये भूयिष्ठा राजन्यास्तेषामन्वयानां समूहात् । (२) प्रकटीभवद्भिः । (३) विस्तरणशीलैः । (४) प्रकटिता । (५) श्यामता । (६) आकाशे ॥२९॥ एतद्भुजा एवाऽग्निकाष्ठं तस्मादुद्भूतप्रतापाग्निज्वालाभिर्व्वलन्तो ये राजन्य वेणवस्तेषां राशेरुद्भूतैधूमौधैर्गगने । उत्प्रेक्ष्यते-श्यामता जाता ॥२९॥ १. ०तिशुक्तिजततिर्युधि पौस्फुरीति हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy