________________
४०
श्री'हीरसुन्दर' महाकाव्यम् (१) एतेनाऽकब्बरेण खड्गेन व्यापादितवैरिवारणानां कुम्भस्थलेभ्यो निपतनशीला मुक्ताफलमाला । (२) सङ्ग्रामभूमौ । (३) बभौ । (४) निपातितान् । (५) स्वस्वामिनृपान् । (६) तत्प्रत्यर्थिनृपसम्बन्धिन्याः श्रियः नेत्रेभ्यो निःसरद्वाष्पाम्बुबिन्दुमण्डलीव ॥२२॥
मौक्तिकश्रेणी रेजे । उत्प्रेक्ष्यते - स्वभर्तृराज्ञो हतान्दृष्ट्वा तेषां लक्ष्मीना(णां) नेत्रेभ्यः पतती(न्ती) अश्रुकणश्रेणिरिव ॥२२॥
रोमाङ्कराः समिति यस्य समुत्स्व( च्छ )सन्ति, संवाससङ्गतगुणप्रगुणीभवन्तः । एतद्वदुद्धतविरोधिधराधवानां, हल्लेखतामिव निशुम्भकृते वहन्तः ॥२३॥
(१) रोम्णां प्ररोहाः । (२) सङ्ग्रामे (३) ऊर्वीभवन्ति । (४) अकब्बरनूपदेहे सम्यग्वसनेन मिलिताः शौर्योत्साहतादयो गुणास्तैः प्रगल्भा जायमानाः । (५) अकब्बरसाहिरिव मदमत्तप्रत्यर्थिपार्थिवानाम् । (६) उत्कण्ठिताम् । (७) हननार्थम् । (८) दधतः ॥२३॥ .
रणे यस्य देहे रोमाङ्करा उल्लसन्ति । उत्प्रेक्ष्यते-शौर्यसत्त्वाढ्यदेहे सङ्गता ये गुणास्तैः प्रगल्भा जायमानाः सन्तोऽत्युद्धतराज्ञां मारणार्थमुत्कण्ठतां वहन्त इव ॥२३॥
एतद्दिनेशशशिभूदिनयामिनीभ्यां, सृष्टिं विधातुमखिला प्रभुना( णा) न वैश्वीम् । तादृग्दिनेन्दुदयिताकृतये किमत-त्तेजोयशोरविविधू विधिना प्रणीतौ ॥२४॥
(१) एताभ्यां विद्यमानाभ्यां रविचन्द्राभ्यामुत्पत्तिर्ययोस्तादृशीभ्यां दिवसनिशाभ्याम् । (२) निर्माणम् । (२) कर्तुम् । (४) समर्थेन । (५) विश्वसम्बन्धिनीम् । (६) तादृश्यो विगलितावधिसमयाभ्युदयभाजोः दिवसनिशयोर्निर्माणाय । (७) एतस्य साहेः प्रतापयशसी एव सूर्यचन्द्रौ । (८) कृतौ ॥२४॥
एताभ्यां प्रत्यक्षलक्षाभ्यां सूर्यचन्द्राभ्यां भूरुत्पत्तिर्ययोस्तादृशीभ्यां दिनरात्रिभ्यामष्टयामत्वेन जगत्सृष्टिं कर्तुमक्षमेन(ण) धात्रा तादृशोदिनरात्र्योः कृतेऽकब्बरप्रतापयशसी रविचन्द्रौ कृतौ ॥२४॥
यद्वैरिराजकयशोगुणराशिरात्री-प्राणेशतारकगणेन कदाचनाऽपि । द्वीपान्तरं परिचरत्यपि यत्प्रताप-प्रद्योतने न संमवाप्युदयावकाशः ॥२५॥
(१) अकब्बरस्य रिपुनृपगणस्य । 'राज्ञां समूहो राजक'मिति हैम्याम् । तस्य यशस्तद्युक्तगुणनिकरास्त एव चन्द्रतारकास्तेषां व्रजेन । (२) कस्मिन्नपि प्रस्तावे । (३) अन्यद्वीपम् । (४) भजत्यपि । (५) यस्य महःसहस्रकिरणे । (६) लब्धः । (७) उद्गमनप्रस्तावः । अभ्युदयवेला ॥२५॥
यत्प्रतापेऽष्टादशसु द्वीपेषु गते वैरियशोगुणा एव चन्द्रतारका नोदिता ॥२५॥ 'अश्रान्तदण्डनिहताहववादनीय-वाद्यस्वरैः प्रेसृमरैः समरे 'धरेन्दोः ।
'अस्तम्भि वैरिनृपदोर्युगदण्डदर्पः, सर्पेन्द्रगर्व इव गारुडिकस्य मन्त्रैः ॥२६॥ 1. विभुना हीमु० । 2. ०दर्प हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org