________________
३८
श्री हीरसुन्दर' महाकाव्यम् यत्प्रस्थितौ रथहयद्विपपत्तिवीङ्खा-प्रोत्खातपांशुपिहिताखिलदिङ्मुखेषु । आक्रन्दि चक्रमिथुरथ पांशुलाभिः, प्राह्लादि पल्लवितमन्तर्रुलूकलोकैः ॥१५॥
(१) अकब्बरस्य चै( जै )त्रयात्रायाम् । (२) चमूचलनोत्थापितरजोभिराच्छादितसमस्तदिगाननेषु । (३) निशाभ्रमात् चक्रवाकयुगैः परस्प[र] वियोगाशङ्कया मुक्तकण्ठं रुरुदे । (४) व्यभिचारिणीभिः स्त्रीभिः ।(५) उत्स्व( च्छ )सितम् । (६) घूकनिकरैः । "आलोकताली(लो)कमुलूकलोक" इति नैषधे ॥१५॥
यस्य प्रस्थाने चमूद्भूतरजोभिराच्छादितासु दिक्षु चक्रवाकै रात्रिवियोगाशङ्कया रुरुदे । पुनर्घनान्धकाराद्व्यभिचारिणीभिः प्रमुमुदे । पुनः स्वैरसञ्चारत्वाद् घूकैरन्तश्चित्ते पल्लवितमुत्स्व(च्छ)सितम् ॥१५॥
धत्ते स्म 'कम्पमंभिषेणयति 'क्षितीन्द्रे, यस्मिन्य॒तीपपृथिवीपुर( रु )हूतपृथ्वी । यस्मादतः परमसौ भविता पतिर्मे, प्रीतेहँदन्तरिति "निर्मितताण्डवेव ॥१६॥
(१) चलिताम् । (२) रिपून्प्रति सेनया अभिगच्छति । (३) अकब्बरे । (४) प्रत्यर्थिनृपतिभूमी:( मी) । (५) कारणात् । (६) अस्मात्समयादारभ्य । (७) अकब्बरसाहिः । (८) मम भर्ता भावी । (९) स्नेहात् । (१०) हृदयमध्ये । (११) कृतनृत्या ॥१६॥
___ यस्मिन्नृपे यात्रायां गच्छति सति प्रत्यर्थिभूः कम्पिता । उत्प्रेक्ष्यते-यद्वदुल्लासात्कृतताण्डवा इवेति । इतीति किम् ? यदसौ मे-पृथ्व्या भर्ता भविष्यति । अद्वैतनीतिमतामग्रणीरकब्बरक्षोणीनभोमणीरिति दर्शितमिति चाऽवसेयम् ।।१६।।
सम्प्रस्थिते वसुमतीविजयाय यस्मिन्, भूविरोधिभिरैदृश्यत 'दिक्षु दाहः । जाने निजव्यसनवीक्षणभूतभू(नू )ता(ना)-सातस्वदिग्युवति निःस्व( श्व)
सिताग्निकीलः ॥१७॥ (१) भूमण्डलं जेतुम् । (२) चलिते । (३) वैरिभिः । (४) दृष्टः । (५) ज्वलन्त्यो दिशो दृष्टा इत्यर्थः । (६)निजानामकब्बरारिपूर्वादिक्पतिनृपतीनामात्मनां व्यसनस्य भाविमरणावधिविपत्तेरवलोकनेनोत्पन्नं नवीनं दुःखं यासां तादृश्यः स्वेषां तत्तन्नृपाणां दिश एव प्रियास्तासां निःस्वा( श्वा )सानलज्वालेव ॥१७॥
सम्प्र० । तस्मिन्प्रस्थिते वैरिभिदिक्षु दाहो दृष्टः । उत्प्रेक्ष्यते-स्वविपद्ज्ञानेनोत्पन्ननूतनमसुखं यासां तादृशीनां स्वदिशां निःस्वा(श्वा)[सानलज्वाला ॥१७॥
भूपेऽभिषेणयति यत्र रजोऽभिवृष्ट्या, दृष्टा दिशः परनृपैर्मलिनाः समग्राः । स्वस्वामिसङ्कटसमीक्षणमूर्च्छनोर्वी-निष्यातधूसरितमूर्तिलता इवैताः ॥१८॥ (१) अकब्बरनूपे । (२) सेनया सह प्रतिनृपतीनभिगच्छति । (३) धूलीवर्षेण । (४)
1. गात्र. हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org