________________
दशमः सर्गः जयनशीलस्मरस्य पराभवनोद्भूताभिः । (६) नेमिनाथस्य । (७) गीता । (८) अतिशायिस्वरैः ॥४॥
यथोन्नतं नक्रं वक्त्रं भूषयति तद्वन्मेवातमण्डलमध्यभूमी भूषयति । कुशावर्ते देशे जन्म दधतः । यथा क्षीराणचे पारिजातनामा कल्पद्रुरुत्पत्तिं धत्ते । पुनर्जन्तुवाञ्छापूरयतः श्रीनेमिनाथस्य कामजयेनोपार्जिता कीर्तिरिक्षुच्छायास्थिताभिः पुनस्तद्रक्षणे चतुराभिः दिल्लीदेशस्य तरुणी[भिः] कर्षकस्त्रीभिर्जगे, न तु गीतमित्युत्प्रेक्षोद्भावनीया ॥३-४||
संसेवितो 'द्विरसनैरसुराश्रयश्च ख्यातो रसातलतया नरकानुषङ्गी । एतद्विगानमपनेतुमिदंमिषेण वासो व्यधायि किमु भोगिगृहेण भूमौ ॥५॥
(१) आश्रितः । (२) भुजगैः दुर्जनैश्च । (३) दैत्यावासः । (४) प्रसिद्धः । (५) रसातलमित्यनिष्टवाक्यम् । धनपालोऽप्याह - "रसातलं यातु यदत्र पौरुष' मिति विरुद्धोक्तिः । (६) नरकस्याऽनुषङ्गोऽस्त्यस्मिन् नरकस्य सेवी च । (७) ईदृशं विश्वेऽपवादं वारयितुम् । (८) दिल्लीदेशदम्भेन । (९) कृतः । (१०) नागलोकेन ॥५॥
यदसौ भुजगैः खलैश्चाश्रितः, पुनर्दैत्याश्रयः, पुनः पातालतया विख्यातः, पुनर्नरकासुरस्य दुर्गतीनां वाऽपसङ्गवान् - एतदपवादं नेतुम् । उत्प्रेक्ष्यते - दिल्लीदेशदम्भान्नागलोकेन भूमौ वासः कृतः ॥५॥
तन्निर्जयोद्यतनिजस्य भयादवेत्य यांतं प्रणश्य बॅलिसद्म तलेऽचलायाः । पृष्ठे विलग्न इव तं विजिगीषुरेष स्वर्गः क्षमामुपजगाम 'मिषादUष्य ॥६॥
(१) तस्य बलिसद्मनः पराभवने उद्यमभाज उत्सुकस्य वा निजस्याऽऽत्मनः । “निजस्य तेजःशिखिनः परःशता" इति नैषधे । (२) ज्ञात्वा । (३) गतम् । (४) नंष्ट्वा । (५) नागलोकम् । (६) भूमेरधस्तात् । (७) पश्चाद्विलग्नः । (८) तम्-बलिसद्म । (९) जेतुमिच्छुः। (१०) प्रत्यक्षलक्ष्यः । (११) भूमीमागतः । (१२) दिल्लीदेशस्य । (१३) कपटात् ॥६॥
तन्नि० । नागलोकजयोद्यतस्य स्वर्गस्य भयाद्वलिसा रसातले प्रविष्टं ज्ञात्वा दिल्लीदम्भात् । उत्प्रेक्ष्यते-स्वर्गः पृष्ठे लग्न इवाऽऽगतः ॥६॥
यः पद्मनन्दन इवाऽस्ति हिरण्यगर्भो, रम्याप्सरा हरिरिवाऽच्युतवत्सलक्ष्मीः । रत्नाकरोऽम्बुधिरिवारिरिवाऽऽत्मयोने-र्दुर्गान्वितः “पविरिवाऽसहजैरजेयः ॥७॥
(१) देशः । (२) ब्रह्मेव । “पद्मनन्दनसुतारिरंसुना' इति नैषधे । (३) स्वर्णं मध्ये यस्य । कनकभृतनिधानकलशानां भूगर्भे स्थायित्वात् । ब्रह्मणस्त्वभिधानम् । (४) क्रीडाकरणोचितानि पानीयप्रधानानि सरांसि यत्र । शक्रस्तु रमणार्हा अप्सरसो रम्भा प्रमुखा यस्य । (५) सह लक्ष्या विभवेन वर्तते यः । कृष्णस्तु श्रिया पन्त्या सहितः । (६) प्रशस्तवस्तूनां खानिः । समुद्रस्तु मणीनां खानिरुत्पत्तिस्थानम् । (७) विषमाद्रिकोट्टैः कलितः । शिवस्तु पार्वत्या युतः । (८) वज्र
- इति दिल्लीदेशः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org