SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ऐ नमः ॥ अथ दशमः सर्गः ॥ निःशेषदेशककुदं भुवि भाति 'दिल्लीदेशोऽथ कैलिनिलयो नलिनालयायाः । नाभीभुवा भुंजगनि रसद्मसारमादाय निर्मित इवैष खनिः सुखानाम् ॥१॥ (१) समस्तजनपदेषु मुख्यः । (२) दिल्लीमण्डलः । मेवातदेशः । (३) अथाकब्बरसाहिमिल[न] प्रारम्भे । (४) क्रीडागृहम् । (५) लक्ष्याः । (६) ब्रह्मणा । "नाभीमथैष श्लथवाससोऽस्या" इति नैषधे । (७) नागलोक-स्वर्गयोः सारम् । (८) गृहीत्वा । (९) दिल्लीदेशः । (१०) सुखाकरः ॥१॥ निःशे० । समग्रदेशप्रधानो मेवातमण्डलोऽस्ति । उत्प्रेक्ष्यते-लक्ष्म्याः क्रीडागृहम् । उत्प्रेक्ष्यतेनागलोकस्वर्लोकसारमादाय धात्रा सुखखनिः कृत इव ॥१॥ यस्मिन्विभाति भागिनी तपनाङजस्य रङ्गत्तरङ्गशिखरोन्मिषितारविन्दा । देशश्रियाः किमपि निर्गलितोत्तरीया वेणी विभूषणवतीव परिस्फुरन्ती ॥२॥ (१) देशे।(२) सूर्यपुत्रस्य-यमस्य जामिर्यमुनेत्यर्थः । (३) चलत्कल्लोलाग्रे स्मरत्कमलानि यस्याम् । (४) कथमपि ।(५) निष्पतितोपरिवसनायाः ।(६) कबरी । (७) आभरणभ्राजिनी। (८) प्रत्यक्षलक्षा ॥२॥ यस्मिन्देशे यमस्वसा नदी विकसितारविन्दयुक्ता भाति । उत्प्रेक्ष्यते-केनापि प्रकारेण पतिताच्छादनवस्त्रा पुनर्मस्तकाभरणभूषिता दीप्यमाना वेणी ॥२॥ 'उत्ताननक्र इव वक्त्रकज कुशाद्यावर्ते विभूषयति मध्यमहीममुष्य । उत्पत्तिमांकलयतो ददतोऽङ्गिकामान् क्षीरार्णवे क्रतुभुजामिव पादपस्य ॥३॥ आंसेदुषीभिरवने विदुषीभिरिक्षुच्छायासु यन्नवकुटुम्बिघटस्तनीभिः । कीर्तिर्जगज्जयिरतीशजयोजितेव राजीमतीशितुरंगीयत गीतिसँच्चैः ॥४॥ (१) उन्नतनासि[का]। (२) मुखाम्बुजम् । (३) कुश इति पदमाद्यं यत्र तादृशे आवर्तेकुशावर्त्तदेशे । (४) शोभां नयति । (५) दिल्लीदेशस्य मध्यप्रदेशम् । (६) जन्म । (७) दधतः कुर्वतो वा । (८) यच्छतः (९) जन्तुजाताभिलाषान् । (१०) क्षीरसमुद्रे । (११) देवतरोः । कल्पद्रोरित्यर्थः ॥३॥ (१) उपविष्टाभिः । (२) पण्डिताभिः-कुशलाभिः । (३) इक्षुक्षेत्ररक्षायाम् । 'इक्षुच्छाया निषादिन्यः" इति रघौ । (४) दिल्लीदेशस्य तरुणीभिः । कौटुम्बिकानां वनिताभिः । (५) जगतां ला 1. रोन्मथिता० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy