________________
श्री' हीरसुन्दर' महाकाव्यम्
(१) अमरावत्याः कृता लज्जा येन । ( २ ) गन्धारनगरे । ( ३ ) नागभवनम् । ( ४ ) कृतोद्यमे । (५) वर्षाकाले । ( ६ ) हंसः । ( ७ ) संस्थितः ॥ १५०॥
३२
अमरपुराधिके पुनर्बलिगृहं जेतु सज्जीभूते गन्धारपुरनगरे स प्रावृषि तस्थौ । यथा नारायणोऽर्णवे प्रावृषि तिष्ठति ॥ १५२॥
'जीविकामिव 'नभोऽम्बुपावलेः प्रावृषं पुनरैवेत्य पत्तने । "हीरसूरिपुर (रु)हूतशासनार्त्तस्थिवान्विजयसेनसूरिराट् ॥ १५१ ॥
( १ ) जीवनवृत्तिः । ( २) बप्पीहपङ्क्तेः । (३) वर्षाकालम् । (४) ज्ञात्वा । (५) देशात् । (६) स्थितः ॥ १५१ ॥
चातकपङ्क्तेर्जीवनवृत्तिमिव प्रावृषं ज्ञात्वा हीरविजयसूरिनिर्देशाद्विजयसेनसूरिः पत्तने तस्थिवान्
॥१५३॥
प्रीणन्प्राणिनभोऽम्बुपान्प्रविदधद्दुर्वादिनां दुर्दिनं "बोधाङ्करकरम्बितां विरंजसं कुर्वंश्च चिंत्तक्षितिम् । आनन्दं ददते स्म विस्मयकरीं व्यहारधारां किंरभूमौ "सूरिपुरन्दरो जलधरो "जम्भारिमार्गे पुनः ॥१५२॥
( १ ) भव्यबप्पीहान् । (२) कुर्वन् । (३) परवादिनाम्-मिथ्यादृशाम् । ( ४ ) दुष्टदिवसं मेघान्धकारं च । (५) तत्त्वज्ञानसम्यक्त्वप्ररोहपूर्णाम् । (६) विगतरजस्काम् । पापधूलीभ्यां रहिताम् । (७) मन एव मेदिनीम् । (८) 'ददि दाने' आत्मनेपदी । (९) आश्चर्यनिष्पादिनीम् । (१०) वाग्विलासामृतवृष्टिम् । (११) विस्तारयन् । (१२) हीरसूरीन्द्रः । (१३) मेघ: । ( १४ ) गगने । “येनाऽमुना बहुविगाढसुरेश्वराध्वराज्याभिषेकविकसन्महसा बभूवे" इति नैषधे । गगनं शक्रमार्ग इति ॥१५२॥
भव्यचातकान् तर्पयन्, पुन: कुमतानां दुर्दिनं कुर्वन्, पुनर्मनोभूमीं प्रतिबोधप्ररोहां पापधूलिरहितां च कुर्वन्, पुनर्वाग्विलासामृतं विस्तारयन् । एतादृशसूरिहरिर्भूमौ, गगने मेघश्च हर्षं ददते स्म । —ददि दाने' इत्येतस्य रूपमेकवचनान्तम् ॥१५४॥
भवसलिलनिधैरिवैकसेतुं विधिमंक्लम्ब्य तदाऽऽगैमप्रणीतम् । "घनसमयदिनादिनेश्वर श्रीर्गमँयामास मुनीश्वरः क्रमेण ॥१५३॥
इति पं० देवविमलगणिविरचिते हीरसौभाग्य ( सुन्दर) नाम्नि महाकाव्ये शासनदेवी प्रकटीभवनगुरुप्रश्न- तदुत्तर -गमन - चन्द्रतारास्त-तमस्तमीविरामदिनदिनकरोदय-श्रीविजयसेनसूरिसूरिपददान- नन्दिभवनमेघजीऋषिसमागमन-गन्धारपुरगमनवर्णनो नाम नवमः सर्गः ॥ ९ ॥ ग्रन्थाग्रम् १६३ ॥
(१) संसारसमुद्र (द्रे) अद्वैतपालि: । 'पाज' इति प्रसिद्धिः । (२) आश्रित्य । (३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org