SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः ३१ तथा गणानां जनसमुदायानां ईशान् गणेशं च । तथा स्वर्ण देशाधिपतिं च स्वामिकात्तिकं च, राजानो यक्षा ईश्वरः शंभुस्तान्बिभ्रता येन जिताऽलका कैलाशमस्तकं श्रिता ॥१४७॥ 'स्फूर्त्या 'मणीकम्बुवराटमुक्तिकाप्रवालमातङ्गतुरङ्गमश्रियाम् । विहेलितेनाऽम्बुधिना "द्विवेलं वेलाच्छलाईंनगरं न्यषेवि ॥१४६॥ (१) विलासेन । (२) रत्न-शंख-कपर्दक-मुक्ताफल-विद्रुम-गजा-श्वादिलक्ष्मीनाम् । समुद्रे ऐरावणोच्चैःश्रवसोरुत्पन्नत्वाद् जलगजाश्वानां सम्भवाद्वा । (३) विजितेन । (४) समुद्रेण । (५) द्वे वेले वारे यत्रेति क्रियाविशेषणम् । (६) जलवृद्धिमिषात् । (७) गन्धारपुरम् । (८) सेवितम् ॥१४६॥ रत्न-शङ्ख-रत्नमुख्य-मुक्ताफल-विद्रुम-हस्ति-अश्वानां शोभया जितेनाऽर्णवेन यन्नगरं सेवितम् ॥१४८॥ 'इन्द्रनीलमणिशालिजालकोश्चन्द्रकान्तकृतचन्द्रशालिकाः । भूतलाभ्युदयिनो बभासिरे शारदी[न]शशिमण्डला इव ॥१४७॥ (१) नीलमणीनां शोभनशीलागवाक्षा येषु । (२) चन्द्रकान्तमणिभिर्निर्मितशिरोगृहाणि । (३) पृथ्वीपीठोद्गमनशीलाः । (४) शरत्कालसम्बन्धिचन्द्रबिम्बाः ॥१४७॥ ___ इन्द्रनील रचिता जालका यासु तादृशाश्चन्द्रकान्तघटितचन्द्रशालाः शोभन्ते । उत्प्रेक्ष्यते-चन्द्रमण्डलानि ॥१४९।। 'महैर्मही योभिरनेकनागरैः 'प्रवेशितः सूरिपुरन्दरः पुरम् । *दिग्जैत्रयात्रासु नजानुगीकृतप्रतीपभूमिपतिसार्वभौमवत् ॥१४८॥ (१) उत्सवैः । (२) अतिशायिभिः । (३) प्रवेशः कारितः । (४) दिशां जयनशीलप्रयाणेषु । (५) स्वसेवकीकृतरिपुनृपतिः चक्रीव ॥१४८॥ नागरैर्महोत्सवेन श्रीसूरिः प्रवेशितः । यथा नम्रीकृतानेकभूपश्चक्री पौरैः पुरं प्रवेश्यते ॥१५०॥ गणकैरविणीरमणः श्रमणैर्बहुभिः सह तत्पुरमध्यवसत् । कलभप्रकरैरि[व] गंधगजो जलबालकभूधरभूवलयम् ॥१४९॥ (१) गच्छाधिपतिः । (२) गन्धारपुरम् । (३) आश्रयति स्म । (४) बालगजवजैः । (५) गन्धहस्ती । (६) विन्ध्याद्रिभूपीठम् ॥१४९॥ स गणचन्द्रो मुनिभिः सह तत्पुरमाश्रयति स्म । यथा त्रिंशदब्दकैर्गजैः सह गन्धहस्ती विन्ध्याद्रिपृथ्वी श्रयति ॥१५१॥ अमरपुरीकृतलज्जे तंत्र स जेतुं बलेर्गृह सज्जे । प्रांवृषि मा ससद्मा मानससरसीव संतस्थे ॥ १५०॥ 1. इति गन्धारवर्णनम् । हील० 1 2. विजेतुं हीमु० । 3. दुग्धपयोधौ मधुपरिपन्थीव तस्थौ सः ॥१५२॥ 4. इति गन्धारपुरे हीरसूरेः स्थितिः । हील०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy