________________
३०
श्री हीरसुन्दर' महाकाव्यम् (१) मोक्षपत्तनमार्गे । (२) दीक्षां ग्राहयति स्म । (३) व्यवहारिपुत्रान् ॥१४१॥ श्रीसूरिर्मोक्षपथिकावतारान् व्यवहारिसुतान्दीक्षयामास ॥१४३।। शाखाप्रशाखाश्रेणीभिराकीर्णः श्रमणाग्रणीः । व्यभाद्वैट इव च्छाँयाच्छन्नः सेव्यश्च राजभिः ॥१४२॥
(१) शाखा[प्रशाखा]विमलविजय-हर्षसौभाग्यप्रमुखास्तासां पङ्क्तिभिर्व्याप्तम् (प्तः) । (२) मुनिपुङ्गवः । (३) न्यग्रोधः । (४) शोभाकलितः । (५) भाविनि भूतोपचाराद्भपैरुपास्यः । वटस्तु स्कन्धनिःसृताः शाखास्ताभ्यः पुनर्निःसृताः प्रशाखास्तासां श्रेणिभिर्भरितः प्रतिच्छाययोपचितः, यक्षैर्लक्षितः, यक्षाणां वटवासित्वात् ॥१४२॥
श्रीसूरिः शाखाप्रशाखाभिर्व्याप्तो वट इव रराज ॥१४४।। 'समस्थापयत्तीर्थसार्थाननेका-ननेकान्तवादाम्बुजाम्भोजबन्धुः । महीमण्डले रन्तुर्मुत्कण्ठितायाः सुरत्केलिगेहा इव ब्रह्मलक्ष्म्याः ॥१४३॥
(१) संस्थापयति स्म । (२) तीर्थमालाम् । (३) जैनशासनसरोरुहसहस्ररश्मिः । (४) तीर्थानां भूमण्डले स्थायित्वात्, अत एव भूपीठे । (५) क्रीडितुम् । (६) उत्सुकितायाः । (७) दृश्यमानाः क्रीडार्थं गृहाः । (८) मोक्षश्रियाः ॥१४३॥
श्रीसूरिस्तीर्थानि स्थापयति स्म । उत्प्रक्ष्यते - मोक्षलक्ष्म्याः क्रीडागृहाणि ॥१४५।।
अथो लाटलक्ष्मीललामायमानं पुरं वौद्धितीरेऽस्ति गन्धारनाम । किमुंद्वेज्यमाना जलैरैम्बुराशेः प्रतीरं पुरी “संश्रिता शार्ङ्गपाणेः ॥१४४॥
(१) अस्मिन्नवसरे ।(२) लाटना[म]मण्डलश्रियास्तिलकवदाचरत् ।(३) समुद्रोपकण्ठे । (४) गन्धारनाम नगरमस्ति । (५) उद्वेगं प्राप्यमाणा । (६) समुद्रसलिलैः । (७) तटम् । (८) प्राप्ता । (९) द्वारिकेव ॥१४४॥
अथेत्यनन्तरं लाडदेशतिलकायमानमर्णवतटे गन्धारनाम बन्दिरं समस्ति । उत्प्रेक्ष्यते-अर्णवतरङ्गैरुद्वेगं प्राप्ता शाङ्गपाणेर्नारायणस्य पुरी द्वारिकानगरी तटं संश्रिता किमु आस्ते ॥१४६।।
→निधानेशरम्भाकुमारीगणेशान्दधानेन गाङ्गेयराजेश्वरांश्च । रेजिता 'येन 'वस्वोकसारा स्वलक्ष्म्या 'हियेवोऽऽश्रिता शम्भुशैलस्य मौलिम् ॥१४५॥
(१) येन - गन्धारपुरेण । (२) अलका । (३) अभिभूता सती । (४) लज्जया । (५) गता । (६) कैलाशशिखरम् ॥१४५॥
निधा० । निधीशा धनदश्च, रम्भाः - कदल्योऽप्सरसश्च, कुमार्यः कन्यकाः, धनदाङ्गजनलकूबरपत्नी
1. इति हीरविजयसूरिधर्मकृत्यमहिमसम्पदः । हील० । → एतदन्तर्गत: पाठस्तस्य टीका च हीसंप्रतौ न स्तः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org