SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः ( १ ) लुम्पाकगच्छात् । (२) चारकगृहात् । ( ३ ) इच्छति स्म । ( ४ ) प्रतिमादर्शनानन्तरम् ॥१०८॥ लुम्पा० । कारागारसदृशाल्लुम्पाकमतान्निर्गन्तुं मेघजीमुनिरभिलषति स्म ॥ १०८॥ तन्मताधिकृतान्वेषधरान्वागुरि] कानिव । ५ पाशे पातयतो मुग्धान्मृगानिव विवेद सः ॥१०९॥ (१) लुम्पाकमताधिकारिणः । (२) वागुराणां पाशे-बन्धे । ( ३ ) अनभिज्ञान् । तत्त्वातत्त्वविचारणाचतुरान् । (४) जानाति स्म । ( ५ ) मेघजीमुनिः ॥१०९॥ तान्मुनिरूपधरान्जनान् वागुरिकानिव जानाति स्म ॥ १०९ ॥ अंमी वां प्रकुर्वन्ति बका इव शनैः शनैः । "सतां सम्यग्दृशो हन्तुं काङ्क्षन्त: शॅफरीरिव ॥११०॥ ( १ ) लुम्पाकाः । (२) गमनम् । (३) आलोक्याऽऽलोक्य । (४) मुञ्चन्ति । (५) मुग्धश्राद्धानाम् । ( ६ ) सम्यक्त्वानि । सत्यज्ञानदृष्टी: । (७) मच्छ्यी( त्स्यी ) रिव । (८) व्यापादयितुम् ॥११०॥ अमी सम्यक्त्वमीनान् हन्तुं बका इव शनै: शनैश्चलन्ति स्म ॥११०॥ 'विगोपनमिवैतेषां वेषं वैषभृतामवैत् । 'तन्मतस्थं पुनर्मेने 'सोऽन्धकूपगतं 'निजम् ॥१११॥ २३ (१) विडम्बनाप्रायम् । (२) लुम्पाकानाम् । (३) वेषधारिणाम् । ( ४ ) वेत्ति स्म । (५) लुम्पाकमतस्थायुकम् ॥ ( ६ ) स्वम् । (७) जानाति स्म । ( ८ ) घोरान्धकारावृतकूपान्तःपातिनम् ॥१११॥ पुनर्जैनाभासलिङ्गधारिणां वेषं विडम्बनाप्रायं बुबुधे । आत्मानमन्धकूपस्थं मेने ॥ १११ ॥ 'आप्तोक्तिरत्नगर्भायाममीषां प्रतिमांऽर्हताम् । "निधिकुम्भीव 'दुःस्थानां पथिकी नाऽभवद् दृशोः ॥ ११२ ॥ (१) सिद्धान्तभूमौ । (२) तीर्थकृताम् । (३) मूर्ति: । ( ४ ) निधानघटी । (५) दरिद्राणाम् । ( ६ ) गोचरा ॥ ११२ ॥ रत्नगर्भातुल्यायां जिनोक्तौ जिनप्रतिमा सत्यपि दरिद्राणां तेषां दृशोर्गोचरा नाऽभवत् ॥ ११२ ॥ ऐहिकामुष्मिके 'सौख्ये दूरेऽत्र स्थायिनो मम । "नीरतीरे "सरःपङ्के निमग्नस्येव 'दन्तिनः ॥११३॥ 1. सौधं कूपगतं० हीमु० । स चाशुद्धो भाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy