________________
श्री' हीरसुन्दर' महाकाव्यम्
( १ ) श्री [मन्तौ ] द्वौ हीरविजय-विजयसेनसूरीन्द्रौ । ( २ ) व्यापादयन्तौ । ( ३ ) अज्ञानान्धकाराणां निकरम् । ( ४ ) रवीन्दू इव ॥१०३॥
२२
श्रीसूरीन्द्रौ शोभेते स्म ॥ १०३ ॥
'वनीमिवाऽवनीं सूरिशक्रौ चंक्रमणैः क्रमात् ।
मधुराधाविव मासौ शोभां लैम्भयतः स्म तौ ॥ १०४॥
(१) आरामम् । “स्ववनीसम्प्रवदत्पिकापि का" इति नैषधे । (२) विहारै: । ( ३ ) चैत्र वैशाखमासाविव । ( ४ ) प्रापयतः स्म ॥ १०४ ॥
यथा चैत्रवैशाखमासौ वनं भूषयतस्तद्वत्तौ सूरीशौ धरणीं भूषयतः स्म ॥ १०४॥ 'कोsपि मेधावमूर्द्धन्यो लुँम्पाकानां मते तदा । "मेघजीऋषिरित्यास्ते नाम्नोऽमेध्ये 'मणिर्यथा ॥ १०५ ॥
(१) कश्चित् । (२) प्रज्ञालचूडामणि: । (३) 'लंका' इति प्रसिद्धास्तेषां मतस्य स्वामी । ( ४ ) मेघजीऋषिरिति नाम्ना । (५) अवस्करे - अशुचिस्थाने । ( ६ ) रत्नमिव ॥ १०५ ॥ तदा तस्मिन्स [म] लडका मेघजीऋषिः प्रज्ञालचूडामणिरस्ति । यथाऽशुचिस्थाने रत्नं पतितं भवति ॥ १०५ ॥
ऋषि: कुंअरजीनामा 'तं लुम्पाकमतप्रभुः ।
पल्लिपतिर्यथा 'वङ्कचूलं निजपदे न्यधात् ॥१०६॥
( १ ) मेघजीऋषिम् । (२) राजपुत्रम् । ( ३ ) तस्य पट्टे । ( ४ ) स्थापयति स्म ॥१०६ ॥ कुंअरजीऋषिर्मेघजीऋषि स्थाने स्थापितवान् । यथा पल्लिपतिर्व[ङ्कचूलं नाम राजपुत्रं ] स्वपदे
स्थापितवान् ॥१०६॥
'सिद्धान्तानेष ''निध्याय' कदाचिंच्चित्तचक्षुषा ।
प्रतिमामहतीं चित्रवल्लीं चाष इवैक्षत ॥ १०७ ॥*
(१) आचाराङ्गाद्यानागमान् । (२) विलोक्य । ( ३ ) शुद्धमनोनयनेन । (४) जिनसम्बन्धिनीम् । (५) दृष्टवान् ॥१०७॥
मेघजीऋषि[स्तत्त्वचक्षुषा सिद्धान्तान् ] विलोकयन् सन् जिनप्रतिमाक्षराणि दृष्टवान् । यथा [नीलचाष]श्चित्रवल्लीमीक्षते ॥ १०७॥
लुम्पाकानां 'मतात्तस्मादिव 'कारानिकेतनात् ।
निर्गन्तुं कामयामास स ततो मेघजीमुनिः ॥ १०८ ॥
1. इति ध्यानोत्थानाकमि[पुरागमनाचार्यपदस्थापनम् ।] हील० । 2. ०ध्यायन्कदा० हीमु० । 3. चित्तत्त्वच० हीमु० । 4. इति मेघजीमुने: प्रतिमाक्षरदर्शनात्प्रतिबोध: । हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org