SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्री हीरसुन्दर' महाकाव्यम् (१) इहलोकसम्बन्धिपरलोकसम्बन्धिनी । (२) सुखे । (३) लुम्पाकमते । (४) तिष्ठतो ममाऽतिदूरे । (५) जलतटे । (६) तडागकर्दमे । (७) पतितस्य । (८) गजस्य ॥११३॥ अत्र स्थितस्य मे इहलोक-परलोकसुखे दूरे वर्तेते । यथा सरसः पङ्के ब्रूडितस्य हस्तिनो नीरतीरे दुर्लभे ॥११३॥ → चेतसीति विचिन्त्याऽसौ पाण्डवानिव पण्डितः । कैश्चिच्चाऽऽलोचचतुरैरालोच्य सचिवैरिव ॥११४॥ स पल्वलमिवाऽमेध्यं हंसो लुम्पाकनायकः । अत्याक्षीत्यक्षमात्मीयं विनेयस्त्रिंशता समम् ॥११४॥ (१) मेघजीऋषिः । (२) अल्पसरः । (३) अपवित्रम् । (४) लुम्पाकमतस्वामी । (५) त्यजति स्म । (६) लुम्पाकमतम् । (७) शिष्यैः ।।११४॥ स चित्त इति विचिन्त्य तत्त्वानुगतप्र(म)तिमान् त्रिंशत्शिष्यरात्मीयं लुम्पाकमतं त्यजति स्म । यथा हंसो जम्बाल-सेवाल-पुरीषा-स्थिपञ्जर-कण्ट[क]-ठिक्करककलितं अपावनं लघुतटाकं त्यजति ॥११४ ११५॥ निर्जित्य स्वमतैश्वर्यस्मयं तौर्यत्रिकोत्सवैः । प्राणमत्प्रतिमां जैनी 'जयी राजेव मातरम् ॥११५॥ (१) जित्वा । (२) स्वस्य मतस्य लुम्पाकनामगच्छस्याऽऽधिपत्यगर्वम् । (३) गीतनृत्य-वाद्यत्रयैरुपलक्षितोत्सवैः । (४) प्रणमति स्म । (५) वीतरागसम्बन्धिनीम् । (६) जयनशीलः । अखिलदिनुक्रजेता । (७) नृपः । (८) जननीम् ॥११५॥ निर्जि० । स्वमतप्रभुत्वं त्यक्त्वा जैनप्रतिमां स प्रणमति स्म । यथा जयवान् राजा स्वमातरं प्रणमति ॥११६॥ कलौ स्वकामिताप्राप्तेर्लोकानालोक्य सीदतः । 'पूर्णकामांश्चिकीर्षुस्तान् स्वः सुरद्रुमिवाऽऽगतम् ॥११६॥* स्वोदयाय कलिं लुप्त्वा किमु कर्तुं कृतं युगम् । नक्तंदिनमिर्वोऽऽदित्यं धर्मं 'मूर्तमिवौद्गतम् ॥११७॥ चतुर्थारकवल्लोकान्पञ्चमेऽप्यरकेऽथवा । अवतीर्णमिवोद्धा कृपया गौतमं पुनः ॥११८॥ →6 एतदन्तर्गत: श्लोक: हीसुंप्रतौ नास्ति । 1. ॥११५॥ युग्मम् । इति मेघजीमुनेर्लुम्पाकमतत्यजनम् ।हील० । 2. जयीव निजमात० हीमु० । 3. ०कीर्षु ता. हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy