SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः (१) अहो इति सम्बोधने । (२) श्रीविजयसेनरिराजान्प्रति । (३) एतन्मया निगद्यमानं वक्तव्यम् । (४) श्रीमतामुत्सङ्गे । (५) समस्तोऽपि गच्छो वर्त्तते । (६) स गच्छः । (७) स्वकीयः शिशुर्बालक इव । (८) पालनीयः ॥१५८॥ 'श्रीवाचकेन्द्रौ विमलादिहर्ष-सोमादिराजद्विजयाभिधानौ । 'निजाँवमात्याविव सूरिभास्वान्, संयोज्य वाचेति 'पुनर्मुखाब्जम् ॥१५९॥ (१) उपाध्यायवृद्धौ । (२) विमलहर्ष-सोमविजयनामानौ । (३) आत्मीयौ । (४) प्रधानाविव । (५) हीरसूरिः । (६) तौ प्रति इति-पूर्वोक्तं गणपालनलक्षणया वाण्या । (७) योजयित्वा । (८) वदनारविन्दम् ॥१५९॥ 'प्रणीय पूर्णाश्चतुरक्षमाला-श्चतुर्गतीनामिव वारयित्रीः । गन्तुं गतिं पञ्चमिकामिवाऽथो, स पञ्चमी प्रारभताऽक्षमालाम् ॥१६०॥ सप्तभिः कुलकम् ॥ (१) कृत्वा । (२) समाप्ति प्राप्ताः । (३) चतसृणां नारक-तिर्यग्-नर-सुरलक्षणानां गतीनां-गमनस्थानकानाम् । (४) निषेधयित्रीः निषेधिकाः । (५) पञ्चमी गति-मोक्षलक्षणाम् । (६) आरब्धवान् । (७) अक्षमालाम् ॥१६०॥ सप्तभिः कुलकम् ॥ 'अथोन्नताख्यस्य पुरस्य पार्वे, 'ग्रामे सपद्मे सरसीरुहीव । समुद्रशायीव युतोऽङ्गजेन, द्विजागुणी: कोऽपि बभूव भट्टः ॥१६१॥ (१) अथेत्येतस्मिन्समये । (२) उन्नतनगरसमीपे । (३) वापि ग्रामे । (४) सह लक्ष्या वर्त्तते यः स सश्रीके । (५) कमले इव । (६) विष्णुरिव । (७) पुत्रेण स्मरेण च युक्तः । (८) कश्चिद्भट्टः । (९) ब्राह्मणमुख्यः ॥१६१॥ 'दिव्यं विमानं पवमानमार्गे, 'नक्तं दृशा बिम्बमिवैन्दवीयम् । सनन्दनो मन्दिरचन्द्रशाला-मालम्बमानः स विलोकते स्म ॥१६२॥ (१) देवसम्बन्धि । (२) गगने । (३) रात्रौ । ( ४ ) नयनेन । (५) चन्द्रमण्डलमिव । (६) सपुत्रः । (७) सश्रीका शिरोगृह)भूमीम् । (८) श्रयन् । (९) भट्टः । (१०) पश्यति स्म ॥१६२॥ 'परस्परं वार्त्तयतां सुराणां, तदा नराणमिव देवमार्गे । 'इदं तदन्तर्ध्वनितं तमायां, शुश्राव स श्रोत्रपुटेन 'भट्टः ॥१६३॥ (१) मिथः । (२) वार्ता कुर्वताम् । (३) तस्मिन्सूरेनिर्वाणसमये । ( ४ ) आकाशे । (५) इदं कथ्यमानम् । (६) विमानमध्ये । (७) शब्दध्वनिम् । (८) शृणोति स्म । (९) 1. निजं मुखा० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy