________________
सप्तदशः सर्गः
३१७
(१) सखिता । ( २ ) आत्मीयेष्विव । ( ३ ) समस्तजन्तुषु । (४) भवतु । (५) भूलोकपाताललोकदेवलोकोत्पन्नेषु नरनागनाकिषु । (६) पुण्यम् । (७) उपार्जितं सञ्चितम् । (८) विभव इव । (९) हृष्टमनाः । (१०) अनुमोदनां कुर्वे ॥ १४७॥
'वृन्दं 'द्रुमाणामिव 'पुष्पकाला द्यस्मादृतेऽन्यर्द्विफलं व्रतादि । 'शुभः स 'भावोऽस्तु ममाऽपवर्ग-मार्गानुलग्नाङ्गभृतां "सहायः ॥१४८॥
(१) निकरः । (२) तरूणाम् । (३) वसन्तात् । ( ४ ) शुभभावात् । (५) विना । ( ६ ) निष्फलम् । (७) व्रतादिपालनप्रमुखम् । (८) विशुद्धपरिणामो भवतु । (९) मोक्षमार्गप्रवृत्तप्राणिनाम् । (१०) सखा ॥१४८॥
'भुक्तेन येनाsa कदाचिदात्मा, न दारुणा 'वह्निरिवऽऽप तृप्तिम् । 'शिवङ्गमीव स्वजनानुषङ्गं, कृत्स्नं तमाहारमहं हामि ॥१४९॥
(१) भक्षितेन । ( २ ) आहारेण । ( ३ ) कस्मिन्नपि काले । ( ४ ) काष्ठेन । जातिवाचित्वादेकवचनम् । (५) अग्निः । ( ६ ) प्राप्तः । ( ७ ) सन्तोषम् । ( ८ ) मोक्षं गमिष्यतीत्येवं शीलः । ( ९ ) स्वजनवर्गस्य सङ्गम् । (१०) समग्रं जहामि ॥ १४९ ॥
'सद्माऽस्ति यः 'पद्ममिवाऽष्टसिद्धि-श्रीणां जगत्कल्पितकल्पसालः । "अलीव पद्मे रमतां मदीये', चित्ते 'चिरं श्रीपरमेष्ठिमन्त्रः ॥ १५०॥
(१) गृहम् । (२) कमलमिव । ( ३ ) अष्टमहासिद्धिलक्ष्मीना ( णा ) म् । ( ४ ) त्रैलोक्यलोक -कामितपूरणे कल्पद्रुमः । (५) भ्रमर इव । (६) कमले । (७) क्रीडतु । ( ८ ) मम मनसि । ( ९ ) चिरमाभवम्, आसंसारं वा । (१०) नमस्कारः ॥ १५०॥
'वाध्रीणसस्येव विषाणमेको, वर्तेत में कश्च न वर्ततेऽन्यः । पुनर्धरित्र्या इव वृत्रशत्रुः, "कस्याऽपि न स्यामहमत्रं विश्वे ॥ १५१ ॥
(१) गण्डकस्येव । (२) शृङ्गम् । (३) अहमेकमेवाऽस्मि । ( ४ ) मम कोऽप्यन्यो नास्ति । (५) नृप इव । ( ६ ) अहं कस्याऽपि नास्मि । ( ७ ) अस्मिन्जगति ॥ १५१ ॥ 'भवेन्मदीयेन्द्रियमन्दिरस्य, यदि प्रमादोऽवसरेऽत्र दैवात् ।
“त्रिधाऽपि “देहादिममाँत्मनाऽहं, 'परिग्रहं बाह्यमिव त्यजामि ॥१५२॥
( १ ) स्यान्ममाऽङ्गस्य । "जुहाव यन्मन्दिरमिन्द्रियाणा" मिति नैषधे । ( २ ) प्रमादो नाम त्याग: । ( ३ ) अस्मिन्प्रस्तावे । ( ४ ) आयुः कर्मक्षयात् । (५) मनोवाक्कायैः । ( ६ ) शरीरप्रमुखम् । ( ७ ) स्वेनेव । ( ८ ) बहिर्भवपरिग्रहमिवाऽन्तरङ्गपरिग्रहमपि-क्रोधमानमायालोभादिपरिवारोपध्यादिकमपि सर्वमपि त्यजामि ॥१५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org