SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३१४ श्री हीरसुन्दर' महाकाव्यम् 'महाव्रतानीव 'मुनीश्वराणां, 'पञ्चेन्द्रियाणीह भवन्ति येषाम् । 'पापद्धिकेनेव महीचरास्ते, सम्प्रापिताः प्रेतपतेनिकेतम् ॥१३२॥ (१) महान्ति, कातरैरल्पसत्त्वैर्धारयितुमशक्यानि प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहविरमणलक्षणानि, व्रतानि-नियमविशेषाः । (२) साधुसिन्धुराणाम् । (३) स्पर्शनरसनध्राणनयनश्रवणलक्षणानि । (४) आखेटिकेनेव । (५) भूचराः । (६) नीताः । (७) यममन्दिरम् ॥१३२॥ जीवान्तिकेनेव वियद्विहारा, आलेख्यशेषत्वमवापितास्ते । कैवर्त्तकेनेव पयश्चरास्ते, कथासु शेषत्वमवापिताश्च ॥१३३॥ (१) शाकुनिकेनेव विहङ्गघातुकेनेव । (२) खचराः । (३) पञ्चत्वम् । (४) प्रापिताः । (५) धीवरेणेव । (६) जलचराः । (७) निहताः ॥१३३॥ 'अर्हन्निदेशोदितचन्द्रसान्द्र-चन्द्रातपोद्वेलकृपापयोधौ । मीनायमानेन 'मुनीन्दुनेव, स्वात्मेव नामानि गणोऽङ्गभाजाम् ॥१३४॥ (१) जिनाज्ञारूप उद्गतशशिनो बहलेन चन्द्रातपेन-ज्योत्स्नया कृत्वा वेलामुल्लङ्घ्य यात उद्वेल उत्कण्ठो( ण्ठितो) यो दयासमुद्रद्रस्तस्मिन् । (२) मत्स्य इवाऽऽचरितेन । (३) सुसाधुना। (४) स्वजीव इव । (५) न ज्ञातः । (६) जन्तुजातम् ॥१३४॥ 'अमर्षणेनेव रुषा 'हसेन, वैहासिकेनेव च 'भीरुणेव । भयेन लोभेन च गृनुनेव, मया यदप्यल्पमजल्प्येलीकम् ॥१३५॥ (१) क्रोधनेनेव । (२) क्रोधेन । (३) हास्येन । (४) विदूषकेनेव हास्यकत्रैव । (५) भयभीतेनेव । (६) भीत्या । (७) तृष्णया । (८) लोलुपेनेव लोभासक्तेन । (९) स्तोकमपि । (१०) भाषितम् । (११) मिथ्यावाक्यम् ॥१३५॥ 'पृ( ऋ)क्थं परेषां परिमोषिणेव, मया कथञ्चिद्यदत्तात्तम् । प्रयोजने “सत्यपि यत्तॄणाद्यं, कचिह्निनाऽऽदेशमुंपाददे च ॥१३६॥ (१) द्रव्यम् । (२) परजनानाम् । (३) चौरेणेव । (४) केनापि प्रकारेण । (५) तेन स्वयमविश्राणितम् । (६) गृहीतम् । (७) कार्ये । (८) विद्यमानेऽपि । (९) तृणप्रमुखम् । (१०) पराज्ञां विना । (११) गृहीतम् । (१२) पुनः ॥१३६॥ 'मरुन्मृगाक्ष्या मरुतेव 'दिव्यं, नार्या 'नरेणेव च 'मानवीयम् । मया तिरश्चेव [पुन]स्तिरश्च्या, तैरंश्चमांचर्यत मैथुनं यत् ॥१३७॥ (१) देव्या सह । (२) देवेनेव । (३) देवतासम्बन्धि । (४) स्त्रिया समम् । (५) पुरुषेण । (६) मनुष्यसम्बन्धि । (७) तिर्यग्जातीयेनेव । (८) तिर्यग्जातीयया स्त्रिया । (९) तिर्यक्सम्बन्धि । (१०) आचीर्णम् । (११) कामक्रीडा ॥१३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy