SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः ३१३ ज्ञानधनादिका मदा अष्टौ । (९) प्राणिनि । (१०) जज्ञिरे ॥१२५॥ (१) अष्टकर्माणि । (२) जीवे । (३) अष्टप्रवचनमातृसम्बन्धिनः । (४) चारित्राचारे । (५) मिथ्याभवन्तु । (६) वाचालस्य । (७) वचनानीव । (८) समस्ताः । (९) इदानीमस्मिन्प्रान्तसमये ॥ १२६॥ युग्मम् ॥ तपस्सु ये द्वादश भेदभिन्ने-ध्वहर्मणीनामिव मण्डलेषु । 'वीर्येऽभवन्येऽत्र भवे ममाऽती-चारप्रचाराश्च मृषाऽऽसतां ते ॥१२७॥ (१) तपआचारेषु । (२) द्वादशभिः कृत्वा पृथक्पृथक् । (३) सूर्याणामिव । (४) बिम्बेषु । (५) वीर्याचारे । (६) जाताः । (७) अस्मिन्जन्मनि । अस्मिन्नित्युपलक्षणात्परस्मिन्नपि जन्मनि । (८) असत्या भवन्तु ॥१२७॥ एकेन्द्रिया भूजलवह्निवायु-वनान्येऽहन्यन्त मयाँऽङ्गिनो ये । 'विभ्राम्यता भूरिभवेषु कर्म-वशेन देशेष्विव दैशिकेन ॥१२८॥ (१) एकमेव स्पर्शनलक्षणमिन्द्रियं येषां ते । (२) पृथिव्यप्तेजोवायुवनस्पतयः । (३) हताः । (४) प्राणिनः । (५) भ्रमणीं कुर्वता, पर्यटता । (६) भूरिष्वन्तातीतेषु भवेषु -जन्ममरणलक्षणेषु । (७) कर्मायत्तेन । (८) जनपदेष्विव । (९) पान्थेन ॥१२८॥ सन्ध्ये दिनानामिव जन्मिनां द्वे, येषां हृषीके भवतो 'हतास्ते । मया जलौकःकृमिशुक्तिशङ्ख-मुखाः प्रमादैकवशंवदेन ॥१२९॥ (१) प्रभातदिवसावसानलक्षणे द्वे सन्थ्ये । (२) जन्तूनाम् । (३) द्विसङ्ख्ये द्वे स्पर्शनरसनलक्षणे । (४) इन्द्रिये भवतः । (५) निपतिताः । (६) जलसर्पिणी गण्डोलकः, अब्धिमण्डूकी, त्रिरेखादिकाः । (७) अनवधानताया आयत्तेन ॥१२९॥ 'विशां वयांसीव भवन्ति येषां, त्रीणीन्द्रियाणीह शरीरभाजाम् । गोपालिकामत्कुणकीटिकाद्या, व्यापादितास्ते तु मया कथञ्चित् ॥१३०॥ (१) नराणाम् । (२) बाल्ययौवनवार्द्धका क्य )लक्षणा दशाः । (३) स्पर्शनरसनघ्राणलक्षणाणि( नि) त्रीणीन्द्रियाणि । (४) देहिनाम् । (५) धनेडिकानि । (६) हताः । (७) केनाऽपि प्रकारेण-जानता अजानता वा ॥१३०॥ चत्वारि येषां पुनरिन्द्रियाणि, नाभीभवस्येव 'मुखानि सन्ति । ते मक्षिकाभृङ्गपतङ्गकर्ण-कीटोर्णनाभप्रमुखा हताश्च ॥१३१॥ (१) चत्वारि-स्पर्शनरसनघ्राणचक्षुर्लक्षणानि । (२) ब्रह्मणः । (३) वदनानि । (४) भ्रमरशलभशतपदीतन्तुवायप्रमुखाः ॥१३१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy