________________
३१२
श्री हीरसुन्दर' महाकाव्यम् यस्यां सा । (६) नवमो रस उपशमलक्षण: स एव पद्मं तत्राऽद्वैतक्रीडाकरणविषये कलहंसः ॥१२०॥
'अम्भोजनाभा इव ये त्रिलोक्याः, 'सिषेविरे 'नीरधिनन्दनाभिः । "भूता भविष्यन्ति वसन्ति सार्वा-स्ते मे शरण्याः "शरणीभवन्तु ॥१२१॥
(१) नारायणा इव । (२) जगत्त्रयस्य । (३) सेविताः । (४) लक्ष्मीभिः । (५) अतीते काले केवलज्ञानिप्रमुखाः सञ्जाताः । (६) अनागते काले पद्मनाभजिनाद्या उत्पत्स्यन्ते । (७) अधनाऽपि श्रीसीमन्धरजिनादिका वर्तन्ते । (८) तीर्थकराः । (९) शरणागतवत्सलाः । (१०) मम (११) त्राणाय भवतु ॥१२१॥
यैरन्तरे ध्यानधनञ्जयस्य, प्रज्वाल्य दुष्कर्ममलं विशुद्धः । असर्जि जाम्बूनदवनिजात्मा, ते सन्तु "सिद्धाः शरणं "शरण्याः ॥१२२॥
(१) यैः सिद्धैः । (२) मध्ये । (३) प्रणिधाम(न)वह्नेः । (४) ज्वालयित्वा । (५) पापकर्ममलम् । (६) निर्मलः । (७) कृतः । (८) स्वर्णमिव । (९) स्वजीवः । (१०) मुक्तात्मानः । (११) शरणे साधवः ॥१२२॥
'वितन्वते ये भ्रमरा इवोऽऽत्म-वृत्तिं स्मरं 'जन्ति च शम्भुवद्ये ।
ते साधवः स्युं शरणं तपस्या-धुरं 'धुरीणा इव धारयन्तः ॥१२३॥
(१) कुर्वते । (२) भृङ्गा इव । (३) निजजीविकां - सा(मा)धुकरी वृत्तिम् । (४) कन्दर्पम् । (५) व्यापादयन्ति । (६) ईश्वरा इव । (७) ते मुनयः । (८) व्रतधुरम् । (९) धुरीणा वृषभा इव । (१०) बिभ्रताः ॥१२३॥
मज्जज्जनस्याऽस्ति करावलम्ब, इवाऽतिभीमे भववारिधौ यः । भूयात्स धर्मः शरणं सुधांशु-सुधामिवाऽन्तः करुणां दधानः ॥१२४॥
(१) ब्रूडतो लोकस्य । (२) हस्तावलम्बनमिव । हस्ताभ्यां गृहीत्वा कर्षक इत्यर्थः । (३) अतिशयेन भयकारिणि । (४) संसारसमुद्रे । (५) धर्मः । (६) संसारभीतस्य मम त्राणाय । (७) चन्द्रामृतमिव । (८) मध्ये । (९) कृपाम् । (१०) श्रयन् ॥१२४॥
ज्ञाने ममोऽष्टौ समयादिकाती-चाराः प्रमादा इव शुद्धधर्मे । शङ्कादिका अष्ट च दर्शनेऽती-चारा ‘मदा देहभृतीव जाताः ॥१२५॥ 'कर्माणि 'जन्ताविव ये ममाऽती-चाराः पुनर्मातृगताश्चरित्रे । 'मिथ्यासतां ते बहुगॉवाचो, व्याहारवन्मे निखिला इदानीम् ॥१२६॥ युग्मम् ।।
(१) ज्ञानाचारे । (२) अष्टसङ्ख्याकाः । (३) कालविनयादिका अतिचाराः । (४) प्रमादा इव । (५) निर्मलधर्मविषये । (६) शङ्काकाङ्क्षाद्याः । (७) दर्शनाचारे । (८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org