SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः 'निशि 'तारैरिवाऽऽकाशो 'भ्रियमाणः स निर्भरम् । तन्महोमिलितै रेजे पौरैर्जानपदैर्जनैः ॥८९॥ (१) रात्रौ । (२) गगनम् । (३) तारकैः । (४) पूर्यमाणम् । (५) अनिलप्रवेशम् । (६) आचार्यपदोत्सवे सङ्गतैः । उत्सववाची महः शब्दः सकारान्तोऽप्यस्ति - "एनं महस्विनमुपैति सदारुणोच्चै'- रिति नैषधे । नलानलयोर्वर्णने - 'महस्विनं तेजस्विन[मनल]मुत्सववन्तं च' । 'महस्तेजस्युत्सवे चे'त्यनेकार्थः । (७) पुरभवैर्देशोत्पन्नैर्जनैः ॥८९॥ यथा नक्तं नक्षत्रैर्गगनं भ्रियते । तद्वज्जनैर्भूतः स मण्डपो रेजे ॥८९।। 'तीर्थेशितेव समवसरणं श्रमणाग्रणीः । श्रमणश्रेणिभिः सार्धमध्यासामास मण्डपम् ॥१०॥ (१) जिनेन्द्र इव । (२) सूरिः । (३) मुनिमण्डलीभिः । (४) आश्रयति स्म ॥ ९०॥ यथा [तीर्थकरः] समवसरणं श्रयति तद्वन्मुनिभिः सह श्रीसूरिर्मण्डपमाश्रितवान् ॥९०॥ 'पण्डिताखण्डलं श्रीमज्जयाद्यविमलाभिधम् । आह्वातुं प्रेषयामास मुनिमुख्यान्मुनीश्वरः ॥११॥ (१) प्रज्ञांशशक्रः( क्रम्) । (२) आकारयितुम् । (३) प्रहिणोति स्म । (४) वाचकादीन्यतिप्रवरान् । (५) सूरिः ॥११॥ श्रीजयविमलप्रज्ञांशमाह्वातुं' .......... ||९१॥ 'अयमानीयतोऽमीभिर्मण्डपं पण्डिताग्रणीः । "औत्तराहैर्गन्धवाहैरँम्बुवाहोऽम्बराङ्कवत् ॥१२॥ (१) जयविमलपण्डितः । (२) आनीतः । (३) मुनिमुख्यैः । (४) कोविदकुञ्जरः । (५) उत्तरस्यां भवैः । (६) वातैः । (७) मेघः । (८) गगनमध्यम् ॥१२॥ अमीभिर्मुनीनैः स पण्डितमुख्यो ........ 'सूरीयो वायु' इति लोकप्रसिद्धैर्वायुभिर्मेघो गगनमध्ये आनीयते । तेन वायुनाऽवश्यं देवः समेति ॥९२।। प्रभुं बभाज तैः सा साधुभिः साधुसिन्धुरः । युवराज 'इवाऽनेकसामन्तैः पितरं निजम् ॥१३॥ (१) हीरसूरिम् ।(२) मुनिभिः समम् । (३) जयविमलप्रज्ञांशः । (४) बहुमण्डलीकैः । (५) तातम् ॥१३॥ प्रभुं० । .....[सूरिं बभाज ] यथा सीमालकभूपयुतो युवराजो जन]कं भाजते]॥९३॥ 1. झेरोक्षसंज्ञकप्रतिलिपेरस्वच्छत्वादक्षराणीमान्यवाच्यानि । 2. उत्तरा० हीमु० । 3. इवानल्पैः सामन्तैः० हीमु० । 4. झेरोक्षसंज्ञक प्रतिलिपेरस्वच्छत्वादक्षराणीमान्यवाच्यानि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy