SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २० श्री हीरसुन्दर' महाकाव्यम् भौविसूरेरभूत्तस्योपाध्यायपदमादितः । 'परमावधिवत्सांधोरुंदेष्यत्केवलश्रियः ॥१४॥ (१) भविष्यदाचार्यस्य । (२) वाचकपदम् ।(३) प्रथमम् । (४) प्रादुर्भविष्यत्केवलज्ञानलक्ष्मीकस्य । (५) मुनेः । (६) परमं पृथक्परमाणुज्ञानकृदवधिज्ञानमिव ॥ तस्योपाध्यायपदं दत्तम् । यथा केवलज्ञानात्पूर्वं परमावधिरु[त्पद्यते]॥९४॥ 'महामहैस्ततस्तस्य सूरिः सूरिपदं ददौ । "जातवेदाः "स्फुरज्ज्योर्तिनिकेतनमणेरिव ॥१५॥ (१) महोत्सवैः । (२) आचार्यपदम् । (३) दत्तवान् । (४) वह्निः । (५) दीप्रदीप्तिम् । (६) दीपस्य ॥१५॥ सूरिर्महोत्सवैः सूरिपदं [ददौ] । यथा [वह्निर्दीपस्य] दीप्तिं प्रदत्ते ॥९५॥ उज्झित्वा शमिनोशेषान्सुरानिव रैमा हरिम् । तं सूरिनूपगच्छन्ती रेजे सूरिपदेन्दिरा ॥१६॥ (१) त्यक्त्वा । (२) मुनीन् । (३) समस्तान् । (४) सुरान्मुक्त्वा । (५) श्रीः । (६) विष्णुमिव । "लक्ष्मीर्यस्याः सर्वाङ्गलावण्यमधु लोचनकषकैरापीय पीयूषजुषो मदनपरवशाः परस्परमेवेर्ण्यन्तश्चक्रुश्चक्रपाणिना समं सङ्गरम् । अथ सर्वानप्यन्तरान्तरापततस्तानुल्लङ्य भगवतश्चिक्षेप कण्ठे वैकुण्ठस्य स्वयंवरणमालिका" मिति चम्पूकथायाम् । (७) जयविमलाह्वमाचार्यम् । (८) प्रयान्ती । (९) सूरिपदश्रीः ॥१६॥ सकलमुनीन् त्यक्त्वा ........ सूरिपद ......... यथा देवान् त्यक्त्वा कृष्णं भजन्ती श्री ति ॥९६।। तस्य पूरयतो विश्वकामांश्चिन्तामणेरिव । श्रीमदद्विजयसेनेति सूरिराजोऽभिधां व्यधात् ॥९७॥ (१) ददतः । (२) कामितानि ॥९७॥ तस्य श्रीविजयसेनसूरिरित्यभिधा कृता ॥९७।। 'किन्नर्य इव नागर्यः(ो ) जगुर्गीतिं पिकक्कणाः । सङ्गीतं तेनिरे नाकिकुमारा इव नर्तकाः ॥९८॥ 1. ०"श्रियः' इतः परं हीसुं०हील०प्रतयोर्मध्ये - उदेष्यत्केवलस्येव तुर्यज्ञानं जिनेशिनुः । इति पाठान्तरं लिखितमस्ति । तट्टीका चैवं हीसुंप्रतौ दृश्यते - प्रकटीभविष्यत्केवलज्ञानस्य तीर्थकृतः मनःपर्यवज्ञानमिव ॥ 2. ०"मणेरिव" इत: परं हीसुंहीलप्रतयोर्मध्ये - प्रदीप इव दीपस्य निजज्योतिस्तमोपहम् । इति पाठान्तरं दृश्यते । पश्चात् हीलप्रतौ - "इत्यपि द्विपदी पाठान्तरे" - एवं लिखितमस्ति । अस्य टीका च हीसुंप्रतावेवं दृश्यते- स्वकान्ति ध्वान्तच्छिदम् । 3. झेरोक्षसंज्ञकप्रतिलिपेरस्वच्छत्वादक्षराणीमान्यवाच्यानि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy