SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ १८ श्री हीरसुन्दर' महाकाव्यम् तंतः स्वाशयसंवादि प्रपेदे तद्वचः प्रभुः । व्रतव्यतिकरे लौकान्तिकदेवोक्तमाँप्तवत् ॥८४॥ (१) सङ्घाग्रहानन्तरम् । (२) निजाभिप्रायसदृशम् । यादृशं स्वचित्ते तादृश एव सङ्घाग्रहः । (३) सङ्घस्य वचः । (४) अङ्गीचक्रे । (५) दीक्षाग्रहणसमये । (६) लोकस्य-पञ्चमकल्पस्य प्रान्तस्तत्र भवा लौकान्तिकाः सुरास्तेषां कथितम् । (७) जिनेन्द्र इव ॥८४॥ ततः स्वाभिप्रायसदृशं वाचं प्रपेदे । यस्य विभोः (यथा विभुः) लोकान्तिकदेववाचं प्रपेदे ॥८४॥ सूरीन्द्रेणाऽथ दैवज्ञैर्मुहूर्त निरंधार्यत । एतन्महोदयस्येव प्रारम्भप्रथमेक्षणः ॥८५॥ (१) मौहूर्तिकैः । (२) सुवेला । (३) निश्चिता । (४) श्रीजयविमलपण्डितस्याऽद्वैताभ्युदयस्य । (५) आरम्भस्याऽऽदिमोऽवसरः । "क्षणः कालविशेष स्यात्पर्वण्यवसरे महे" इत्यनेकार्थः ॥८५॥ दैवेज्ञैर्मुहूर्त्तमुक्तम् ॥८५॥ शिल्पिभिः कारितः सङ्घर्मण्डपो यन्मुनीशितुः । पट्टश्रियं वरीतुं किं स्वयंवरणमण्डपः ॥८६॥ (१) विज्ञानिभिः । (२) निष्पादितः । (३) अकमिपुरश्राद्धैः । (४) हीरविजयसूरेः । (५) पट्टलक्ष्मीम् । जयविमलस्य वा सूरिपदश्रियम् । (६) स्वीकर्तुम् ॥८६॥ श्रीसङ्घर्मण्डपः कृतः । उत्प्रेक्ष्यते - पट्टश्रियः स्वयंवरमण्डपः ॥८६॥ एतद्व्यतिकरेऽनेककौतुकालोकलालसा । त्रिलोकी चित्रदम्भेन मण्डपे किमुपेयुषी ॥४७॥ (१) आचार्यपददानावसरे । (२) बह्वाश्चर्यदर्शनलोलुपा । (३) आलेख्यमिषेण । (४) आगता ॥८७॥ 1...... प्रस्तावे चित्रदम्भात्रिलोकीवाऽऽगता ॥८७।। विस्तीर्णोऽपि से सङ्कीर्णो बभूवाऽनेकनागरैः । भाविभट्टारकागण्यपुण्याकृष्टैरिवाऽऽगतैः ॥८८॥ (१) पृथुलोऽपि । (२) जनाश्रयः । (३) लघुः । (४) बहुनगरनरैः । (५) भविष्यदाचार्यस्य जयविमलपण्डितस्य प्रबलभाग्येनाऽऽकृष्टैरिव ॥४८॥ मण्डपः सङ्कीर्णो जातः ॥८८॥ 1. झेरोक्षसंज्ञकप्रतिलिपेरस्वच्छत्वादक्षराणीमान्यवाच्यानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy