SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः १७ (१) प्रतिबोधयुक्तान् कुर्वन् विकाशयंश्च । (२) सम्यग्दृश एव कमलाः । (३) कुमतकर्दमान् । (४) निष्ठापयन् शोषं नयंश्च । (५) सूर्यप्रतापस्य स्पर्द्धया । (६) समस्ता अपि दिशो व्याप्नोति स्म ॥७८॥ सम्यग्दृश एव कमलान् बोधयन् । पुनः कुवादिकर्दमान् शोषयन् । अतो रविस्पर्द्धया सूरिप्रतापेन दिशो व्याप्ताः ॥७८॥ 'प्रतिक्रम्य चतुर्मासी स क्रमाद्वैयहरत्ततः । हर्षाद्वैर्षामिवोल्लङ्घय मानसार्दिष्टमानसः ॥७९॥ (१) पूर्णीकृत्य । (२) वर्षवतुर्मासम् । (३) प्रस्थितः । (४) मेघागमम् । (५) मानसनामसरसः । (६) हंसः । “नृपमानसमिष्टमानस" इति नैषधे ॥७९॥ स विजहार । यथा हंसो वर्षासमयमुल्लङ्घय मानसात् प्रयाति ॥७९॥ 'क्रमादहम्मदावादपुरे सूरिः समीयिवान् । नभोनीरधिवर्णिन्याः प्रतीरे सुप्रतीकवत् ॥८०॥ (१) अकमिपुरे । (२) समागतः । (३) गङ्गायाः । (४) तटे । (५) ईशानदिग्गजः ॥८०॥ स अहम्मदावादपुरे गतवान् । यथेशानदिक्सम्बन्धी सुप्रतीकदिग्गजो गगनगङ्गायां गच्छति ॥८०॥ देवीनिगदितागण्यभाग्यसौभाग्यशालिनः ।। स्वस्याऽन्तेवासिनस्तस्य कैम्माङ्गजयतीशितुः ॥८१॥ सूरीन्द्रः कामयाञ्चक्रे दातुं सूरिपदं ततः । तैनूजस्येव राज्यस्य धुरं धात्रीपुरन्दरः ॥८२॥* युग्मम् ॥ (१) शासनदेवतासूचितासाधारणपुण्यसुभागाताभिः शोभनशीलस्य । (२) आत्मनः शिष्यस्य । (३) जयविमलप्रज्ञांशस्य ॥८१॥ (१) वाञ्छति स्म । (२) आचार्यपदम् । (३) पुत्रस्य । (४) राजा ॥८२॥ श्रीसूरिर्जयविमलप्रज्ञांशस्य सूरिपदं दातुमभिलषति स्म । यथा राजा स्वपुत्रस्य राज्यभारं दत्ते ||८१-८२॥ प्रक्रमे तत्र तत्रत्यसङ्ग्रेनाऽऽगृह्यत प्रभुः । तमिवाऽभिनवं सूरिशक्रमन्यं दिँदृक्षता ॥८३॥ (१) तस्मिन् प्रस्तावे (२) अकमिपुरीयश्राद्धवर्गेण । (३) हीरसूरिमिव । (४) नवीनम् । (५) द्रष्टुमिच्छता ॥८३॥ तस्मिन्प्रस्तावे सङ्घनाऽऽग्रहः कृतः । उत्प्रेक्ष्यते- नवं सूरिं द्रष्टुमिच्छता ॥८३॥ 1. ०द्वर्षा इवो० हीमु० । ०द्वर्षादिवो० हील० । 2. क्रमेणाह० हीसु० । 3. सूरीन्दुः हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy