SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्री' हीरसुन्दर' महाकाव्यम् ( १ ) प्रारब्ध: । ( २ ) गगने । (३) गमनानुक्रमः । परिपाटी । ( ४ ) सर्वभूमेर्विस्तारम् । (५) द्रुष्टम् । (६) इच्छता ॥७३॥ १६ गगने भानुर्गन्तुमारभत । उत्प्रेक्ष्यते - समग्रपृथ्वीविस्तारं विलोकयितुं काङ्क्षता ||७३ || 'आसाद्य दर्शनं तस्याः शासनस्वर्गिसुभ्रुवः । 'व्यरंसीद् ध्यानतः सूरिर्योगीव "परमात्मनः ॥ ७४ ॥ ( १ ) प्राप्य । (२) शासनदेवतायाः । (३) विरमते ( ति ) स्म । (४) परमात्मनो दर्शनात् । (५) ध्यानं कुर्वाणा योगिनो हृदि परमानां (त्मानं ) प्रेक्ष्य ध्यानाद्विरमन्ते ( न्ति ) । यथा“योगात्स चाऽन्तः परमात्मसंज्ञं दृष्ट्वा परंज्योतिरुपारराम" इति कुमारसम्भवे ॥७४॥ पूर्वोक्ताया: शासनदेव्या दर्शनं प्राप्य सूरिर्ध्यानाद्विरमते (ति) स्म । यथा ध्यानस्था योगीन्द्रा हृदि परमात्मानमालोक्य विरमन्ते (न्ति) ||७४|| सूरीन्दुर्वर्सतेर्मध्यं' 'ध्यानस्था[नादथाऽऽगमत् । 'प्राग्गिरे: “कन्दरक्रोडाद्भांस्वानिव भोऽङ्गणम् ॥७५॥* ( १ ) उपाश्रयस्य । ( २ ) ध्यानविधानास्पदात् । (३) पूर्वाद्रेः । ( ४ ) गुहोत्सङ्गात् । (५) रवि: । (६) गगनमध्यम् ॥ ७५ ॥ ॥७७॥ श्रीसूरिर्ध्यानस्थानादुपाश्रयमध्ये आगतः । यथा पूर्वाद्रेर्नभोमध्ये रविरागच्छति ॥७५॥ प्रीतिप्रह्वैः प्रभुस्तत्र परिवव्रे 'व्रतिव्रजैः । * सुनासीर इवाऽऽ स्थानीर्मासीनः स्वर्गिणां गणैः ॥७६॥ (१) प्रेमप्रणमनशीलैः । ( २ ) परिवृतः । (३) मुनिगणैः । (४) शक्रः । ( ५ ) सभाम् । (६) उपविष्टः । ( ७ ) सुरनिकरैः ॥७६॥ प्रीति । तत्र - मौलोपाश्रये श्रीसूरिः साधुभिर्वृतः । यथेन्द्रो देवगणैर्वृतो भवति ||७६ || तत्राऽऽगमन्प॑त्तनादिसङ्घास्तं वन्दितुं तदा । 'स्वर्गादिदेवाः समवसरणस्थं यथा जिनम् ॥७७॥ (१) अणहिल्लपत्तनप्रमुखसङ्घाः । (२) स्वर्गप्रमुखसुरावसेभ्यश्चतुर्विधसुरा इव ॥ ७७ ॥ पत्तनादिसङ्घास्तं नन्तुमागताः । यथा समवसरणस्थं जिनं नन्तुं वैमानिकादिदेवाः समागच्छन्ति 'प्रबोधयन्सुदृक्पद्यान् 'कुदृक्पांश्च शोषयन् । "स्पर्द्धयेव रवेः सूरेः प्रतापो व्यानशे दिशः ॥ ७८ ॥ 1. ०ध्ये० हीसु. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy