SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः 'हरिव्यापादितध्वान्तकुम्भिकुम्भसमुद्भवैः । रक्त रक्तीकृता शङ्के प्रभा भाति स्म भानवी ॥ ६८ ॥ ( १ ) सूर्यहततमोगजशिरोभवैः । (२) शोणितैः । ( ३ ) भानुसम्बन्धिनी ॥६८॥ रविप्रभा भाति । उत्प्रेक्ष्यते- हरिणा - भानुना केसरिणा च विदारिततमोहस्तिकुम्भोद्भूतै रक्तै रक्तीकृता ॥६८॥ 'कान्तागमे धृताताम्राम्बरा इव दिगङ्गनाः । 'बन्धूकबन्धुरैर्ब्रध्नभवैर्भान्ति प्रभाभरैः ॥६९॥ (१) भर्त्तुरागमने । “दिशो हरिद्भिर्हरितामिवेश्वर " इति रघौ । ( २ ) परिधृतरक्तवसनाः । (३) बन्धुजीवकवत् 'विपोहरियां' इति प्रसिद्धानि, तद्वन्मनोज्ञै रक्तैः । ( ४ ) सूर्योत्पन्नैः ॥ ६९ ॥ सूर्योद्भवकान्तिभिराशावशा भान्ति । उत्प्रेक्ष्यते - सूर्यागमे परिहितरक्तवस्त्रा ||६९ ॥ 'द्रुमद्रोणिषु संञ्चिन्वन्नुलसत्पल्लवानिव । तन्वन्निव तटाकेषून्निद्रत्कोकनदश्रियम् ॥७०॥ कुर्वन्निव गिरेः शृङ्गे गैरिकावनिविभ्रमम् । 'ताम्बूलश्रियमास्येषु दिग्वधूनां दिर्शन्निव ॥ ७१ ॥ ॥७२॥ 'सीमन्तेषु 'मृगाक्षीणां सिन्दूरं 'पूरयन्निव । प्रातः प्रस्तारयन्भाति 'भानुमान्भानुविभ्रमम् ॥७२॥ त्रिभिर्विशेषकम् ॥ १५ ( १ ) वृक्षश्रेणिषु । “भिल्लीपल्लवशङ्कया विचिनुते सान्द्रद्रुमद्रोणिषु" इति चम्पूककथायाम् । " द्रोणी द्रोणिरिदन्तः श्रेण्यामपी" त्यनेकार्थवृत्तौ । (२) उपचयं प्रापयन् । (३) विस्तारयन् । (४) सरस्सु । (५) वि[क]चरक्तकमललक्ष्मीम् ॥७०॥ I (१) धातुमयभूमी भ्रान्तिम् । (२) ताम्बूलीदलभक्षणभवस्तस्य शोभाम् । ( ३ ) मुखेषु । (४) दिगङ्गनानाम् । (५) यच्छन् ॥७१॥ (१) केशवर्त्मसु । (२) स्त्रीणाम् । (३) भरन् । ( ४ ) रविः । ( ५ ) कान्ति विलासम् सूर्यो रश्मिविलासं प्रस्तारयन्भाति । किं कुर्वन् ? । द्रुमश्रेणीषु पल्लवान्बाहुल्यं प्रापयन् । पुनः किं कुर्वन् ? । गिरिशृङ्गे रक्तधातुभूमिविभ्रमं विरचयन् । पुनः तटाकेषु रक्तोत्पलभ्रान्ति कुर्वन्, दिग्वधूनामास्येषु ताम्बूलं ददन्, स्त्रीणां सीमन्तेषु सिन्दूरं पूरयन् इव ॥७०-७१-७२ || 'प्रारेभे भानुना व्योम्नि क्रमाच्चङ्कमणक्रमः । * विश्वविश्वम्भराभोगं प्रेक्षितुं किमु 'काङ्क्षता ॥ ७३ ॥ 1. ० केषु निन्दन्कोक० हीमु० । स चाशुद्धः । 2. इति दिनोदयः हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy