SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १४ स्थूलपाषाणः । ( ८ ) नवीनभानुः ॥६३॥ बालरविर्व्यभात्। उत्प्रेक्ष्यते - तटाघातादिक्रीडां कुर्वता ऐरावणेन पूर्वाचलस्य धातुमयोऽसूक्ष्मपाषाण उत्पाद्य क्षिप्तः ॥ ६३॥ 'द्यावाभूमीपराभूष्णुं 'भूच्छायामरवैरिणम् । भेत्तुं व्यामोचि 'चण्डांशुचक्रं किं 'चक्रपाणिना ॥ ६४॥ श्री' हीरसुन्दर' महाकाव्यम् ( १ ) गगनभुवोः पराभवनशीलम् । (२) तमोरूपं दैत्यम् । ( ३ ) हन्तुम् । ( ४ ) क्षिप्तम् । (५) भानुरूपं सुदर्शनचक्रम् । ( ६ ) हरिणा ॥६४॥ तमोदैत्यं हन्तुं नारायणेन तीक्ष्णकिरणकलितं सूर्यरूपं वा चक्रं मुक्तमिव ॥६४॥ 'कण्ठपीठीलुठत्प्राणरथाङ्गाह्वविहायसाम् । जीवातुर्यमुनाबीजी 'व्यरचीव 'विरञ्चिना ॥ ६५ ॥' (१) वियोगाकुलतया कण्ठगतजीवितानां चक्रवाकपक्षिणाम् । (२) जीवनौषधम् । ( ३ ) सूर्य: । ( ४ ) कृतम् । ( ५ ) विधिना । "जयत्युदरनिःसरद्वरसरोजपीठीपठच्चतुर्मुखमुखावली" ति चम्पूकथायाम् ॥६५॥ कण्ठपीठ्यां निर्गमनायाऽऽगच्छन्तः प्राणा येषां तादृशानां चक्रवाकानां जीवनौषधमिव सूर्योदय जातः ॥६५॥ 'शोणी दीप्तिदिँनेशस्याऽधात्कुंमारितरा श्रियम् । 'कोकैर्दुःखानलज्वाला किमुद्रीर्णा : 'सुहृत्पुरः ॥६६॥ ( १ ) रक्ता । ( २ ) कान्ति: । ( ३ ) रवेः । (४) दधौ । (५) बाला । प्रथमोत्पन्ना । “रचयति रुचिः शोणीमेतां कुमारितरा रवे" रिति नैषधे । ( ६ ) चक्रवाकैः । ( ७ ) प्रकटीकृताः । (८) मित्राग्रे - सूर्यस्याग्रे ॥ ६६ ॥ सूर्यस्य रक्ता बाला - प्रथमोत्पन्ना कान्तिः शोभां धत्ते स्म । उत्प्रेक्ष्यते - चक्रवाकैमित्रस्य सूर्यस्य पुरो दुःखाग्निज्वाला हृदयाद्बहरुद्वान्ता इव ॥ ६६ ॥ निजांनुरागिणीर्वीक्ष्य दारान्स्मेरैसरोजिनीः । किमुद्गीर्णोऽरुणज्योतीरागो "राजीवबन्धुना ॥६७॥ ( १ ) स्वस्मिन्ननुरक्ताः । (२) कमलिनी: । ( ३ ) प्रकटित: । ( ४ ) रक्तकान्तिरेवाऽनुरागः । (५) भानुना ॥ ६७॥ निजा० - पद्मिनी: स्वप्रेयसीर्दृष्ट्वा रविणा रागो बहिरुद्गीर्ण इव ॥ ६७॥ 1. इति सूर्योदय: हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy