SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः 'अवाकिरन्काश्चन मुक्तिकाभि-नवोपयन्तारमिवांऽक्षतैस्त॑म् । 'सिद्धाद्रियात्रोद्भवपुण्यलक्ष्म्या, नवोढयाउँलत्रियमाणपार्श्वः ॥६४॥ (१) वर्द्धयन्ति स्म । (२) लघुमौक्तिकैः । (३) नवपरिणीतवरमिव । (४) लाजैः। (५) सूरिम् । (६) विमलाद्रियात्रोदितसुकृतश्रिया । (७) नवपरिणीतया नवाश्रितया वा । (८) भूष्यमाणसमीपः ॥६४॥ अवाकिरन्काश्चन मुक्तिकाभि-रभ्येत्य वाचंमयसार्वभौमम् । क्षीरोर्मयो मेरुमिव प्रमाथ-कालोच्छलद्भरिपयःपृषद्भिः ॥६४॥ पाठान्तरम् ॥ (१) सम्मुखमागत्य । (२) सूरीन्द्रम् । (३) क्षीरशब्देन क्षीरसागरस्तस्य कल्लोलाः । यथा रघुवंशे-"क्षीरोर्मय इवाच्युत" । (४) सुराचलमिव । (५) प्रकर्षेण मथनसमय-समुत्पतद्भिजलकणैः ॥६४॥ पाठान्तरम् ॥ गीतिं 'जगुर्नागरिकाः किरन्ती, 'सुधां सुधादीधितिमण्डलीवत् । यां श्रोत्रपत्रैर्विनिपीय "चित्रा-पितैरिवाऽभूयत मार्गमार्गः ॥६५॥ (१) गानम् । (२) गायन्ति स्म । (३) द्वीपोन्नतनगरपुरन्ध्यः । (४) वर्षन्तीम् । (५) अमृतम् । (६) अमृतद्युतिमण्डलीमिव । (७) गीतिम् । (८) कर्णपर्णैः । (९) सादरं श्रुत्वा धयित्वा च । (१०) आलेख्यलिखितैरिव । (११) जातम् । (१२) वर्त्मनो मृगसमूहैः ॥६५॥ गजाधिरुढा व्यरुचकुंमारा, विभूषिता भूषणधारणीभिः । प्रवालपुष्पावलिशालमानाः, प्रस्थप्ररूढा इव बालसालाः ॥६६॥ (१) सिन्धुरस्कन्धाध्यासिनः । (२) राजन्ति स्म । (३) बालकाः । (४) अलङ्कताः । (५) आभरणमालाभिः । (६) पल्लवकुसुमश्रेणिभिः शोभमानाः । (७) शिखरोद्गताः । (८) लघुवृक्षाः ॥६६॥ काश्चित्कुमार्यः 'शिबिकाः श्रयन्त्यो, 'माणिक्यभूषा वपुषा वहन्त्यः । कुतूहलाम॑वलयं भजन्त्यो, 'विमानयाना इव नाकिकन्याः ॥६७॥ (१) बालिकाः । (२) याप्ययानानि । (३) रत्नालङ्कारान् । (४) शरीरेण । (५) धारयन्त्यः । (६) कौतुकेन । (७) महीमण्डलमालम्बमानाः । (८) देवयानाधिरूढाः । (९) देवकुमारिकाः ॥६७॥ 1. हीमु०पुस्तके एतच्छ्लोकद्वयमेवं वर्तते- अवाकिरन्काश्चनमुक्तिकाभि-रभ्येत्य वाचंयमसार्वभौमम् । क्षीरोर्मयो मेरुमिव प्रमाथ-कालोच्छलद्भरिपयःपूषद्भिः ॥६५॥ मुक्ताफलैः काश्चिदवाकिरंस्तं नवोपयन्तारमिवाऽत्र लाजैः । सिद्धाद्रियात्रोद्भवपुण्यलम्या नवोढयाऽलङ्कियमाणपार्श्वः ॥६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy