________________
३००
श्री हीरसुन्दर' महाकाव्यम् 'तत्रोपदिश्यति 'जनान्मुमुक्षु-क्षोणीऋमुक्षा क्षणमँक्षिलक्ष्यम् । *प्रणीय नत्वा च तमात्मना तत्पुरं पवित्रीकृतवान्स तद्वत् ॥५९॥
(१) चैत्यवेदिकायाम् । (२) उपदेश-देशनां दत्वा । (३) इत्युक्तप्रकारेण पार्श्वनाथागमनवृत्त्या । (४) जनानुद्दिश्य । (५) श्रीहीरविजयसूरिः । (६) क्षणमात्रम् । (७) दृग्गोचरीकृत्य । (८) नमस्कारं कृत्वा । (९) स्वयम् । (१०) अजयपुरम् । (११) पुनाति स्म । (१२) श्रीपार्श्वनाथ इव ॥५९॥
'द्वीपस्य सङ्घोऽप्यखिलो मुनीन्दो-रभ्यागमतंत्र सहाङ्गनाभिः । 'माहात्म्यमद्वैतर्मवेत्य तस्य, "शुश्रूषया लेखगणः किमेषः ॥६०॥
(१) द्वीपबन्दिरस्य । (२) जनसमुदायः । (३) समग्रः । (४) सूरेः । (५) सम्मुखमाजगाम । (६) अजयपुरे ।(७) स्त्रीभिः सार्द्धम् ।(८) महिमानम् ।(९) असाधारणम् । (१०) ज्ञात्वा । (११) सेवितुमिच्छया । (१२) देवव्रजः ॥६०॥
'लोकम्पृणान्वीक्ष्य गुणानगंणेन्दोः, प्रीता प्रणीयोऽगणितात्ममूर्तीः । 'नम्रागतस्त्रैणमिषेण लक्ष्मी-नमस्यति स्तौति च गायतीव ॥६१॥
(१) विश्वाह्लादकान् । (२) गणधरस्य । (३) सन्तुष्टचित्ता । (४) कृत्वा । (५) गणनातीताः स्वशरीरयष्टीः । (६) नमनशीलतया समागतं यद्वशामण्डलं, तस्य कपटेन । (७) जलधिनन्दना । (८) नमस्करोति । (९) स्तुतिगोचरीकरोति । (१०) गानविषयमानयतीव । वार्द्धः सामीप्यात्तत्तनयागमनं युक्तमेव ॥६१॥
ततः प्रतस्थे 'प्रभाँन्नताख्यं, परं प्रति प्रीतिमना मनीन्द्रः । मेघागमे मानसमंभ्रमार्गः(र्ग)-वहाप्रवाहादिव राजहंसः ॥६२॥
(१) सागमनानन्तरमजयपुरात् । (२) प्रचलितः । (३) सूरिः । (४) उन्नतनामनगराभिमुखम् । (५) पार्श्वयात्रया हृष्टमानसः । (६) वर्षाकाले । (७) मानसं नाम हंसवाससरः । (८) गङ्गाजलपूरात् ॥६२॥
'शिरोधृतश्वेतसुवर्णकुम्भाः, काश्चिल्लसन्ति स्म 'विलासवत्यः । श्यामादिवाऽलक्ष्म्य इवोद्वहत्यः, सम्पूर्णचन्द्राम्बुजबन्धुबिम्बान् ॥६३॥
(१) मस्तकोपरि कलिता उज्ज्वलाः शोभनवर्णा रूप्यस्वर्णानां वा कलशा याभिः । (२) शोभन्ते । (३) विलासो-गजेन्द्रगमनादिकः शृङ्गारादिविभ्रमो वा विद्यते यासां ताः । (४) रजनिदिनश्रिय इव । (५) अखण्डचन्द्रमार्तण्डमण्डलान् । चन्द्रसूर्याणां बहुत्वापेक्षया बहुवचनम् ॥६३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org