________________
२९९
सप्तदशः सर्गः 'ततोऽजयाख्यं नगरं निवास्य, “पुरीमयोध्यामपरामिवाऽत्र । केनाऽपि सिद्धायतनं सुरेण, मुक्तं किमस्मिंश्च "विधाप्य चैत्यम् ॥५४॥ संस्थाप्य तं तत्र जिनेन्द्रबिम्ब, 'सिद्धिश्रियेवोपयम स्वकीयम् । काङ्क्षन्निव द्वादशसूर्यतेजो, दत्वाऽचितुं द्वादर्श शासनानि ॥५५॥ 'भूमीभुजां शेखरयन्शिरस्सु, स्वाज्ञां सुमानामि मालिकां सः । स्वर्गीव नीरोगतनुः क्रमेण, स्वां राजधानी पुनरध्युवास ॥५६॥
त्रिभिर्विशेषकम् ॥ (१) रोगापगमानन्तरम् । (२) अजयाभिधं नगरम् । (३) वासयित्वा । (४) अन्या साकेतनगरी, “साकेतं कोसलाऽयोध्या "इति हैम्याम् । (५) द्वीपसमीपे । (६) अनिर्दिष्टनाम्ना । (७) शाश्वतचैत्यम् । (८) देवेन । (९) आनीय मुक्तम् । (१०) अजयपुरे । (११) शिल्पिभिः कारयित्वा । (१२) प्रासादम् ॥५४॥
(१) स्थापयित्वा । (२) सागरमहेभ्यानीतं पूर्वोक्तप्रभावम् । (३) अजयपुरे । (४) पार्श्वप्रतिमाम् । (५) मोक्षलक्ष्म्या समम् । (६) स्वकीयं विवाहम् । (७) संस्थाप्य वाञ्छन् । (८) द्वादशसङ्ख्याकानां रवीणां प्रतापम् । (९) पूजयितुमर्पयित्वा । (१०) द्वादश ग्रामान् ॥५५॥
(१) राज्ञाम् । (२) अवतंसीकुर्वन् । (३) मस्तकेषु । (४) निजामाज्ञाम् । (५) पुष्पमालामिव । (६) देव इव । (७) रोगरहितवपुः नृपः । (८) आगमनप्रयाणपरिपाट्या । (९) निजाम् । (१०) वासनगरीमयोध्याम् । (११) आश्रयति स्म ॥५६॥ त्रिभिर्विशेषकम् ।
ध्यातोऽधुनोऽप्येष पयोधिमध्ये, 'प्रयाति वातेऽप्य(न)नुकूलभावम् । “निर्विघ्नयन्पोत इवाऽङ्गभाजः, प्रभुः सुखं 'लम्भयति प्रतीरम् ॥५७॥
(१) ध्यानगोचरीकृतः स्मृतो वा । (२) अस्मिन्वर्तमानकालेऽपि । (३) पार्श्वनाथः । (४) जलधिजलान्तराले । (५) गच्छति सति । (६) पवने । (७) मनोऽ[न]नुकूलताम् । (८) वहनानां सुखप्रवर्तकानां विघ्नरहितान् कुर्वन् । (९) यानपात्र इव । (१०) जनान् । (११) पार्श्वनाथः । (१२) सातेनैव । (१३) प्रापयति । (१४) तटभूमी-स्ववेलाकूलम् ॥५७॥
'बहूदितैः किं भवदीयभाग्यै-रारोपितस्तेन महीधनेन ।
सुपर्वशाखीव समीहितानि, यच्छंश्चिरं नन्दतु पार्श्वनाथः ॥५८॥
(१) अनल्पैः कथितैः । ( २ ) किमस्तु । (३) युष्मत्सम्बन्धिभिः सुकृतैः । ( ४ ) उप्तः । (५) अजयनूपेण । (६) कल्पतरुरिव । (७) कामितानि । (८) ददानः । (९) बहुकालं यावत् । (१०) विजयताम् । (११) श्रीपार्श्वः ॥५८॥ 1. इतः परं हीमु०पुस्तकान्तर्गतः ५७तमः श्लोकोऽत्र नास्ति । 2. ०वाते प्रतिकूलभावम् हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org