________________
श्री हीरसुन्दर' महाकाव्यम्
(१) समुद्रोपकण्ठ आगत्य । ( २ ) वेडायाः । ( ३ ) चतुर्दिक्षु बलि - बाकुलादि क्षिप्त्वा । (४) मञ्जूषाम् । (५) गृहीत्वा । ( ६ ) लक्ष्मीमिव । (७) पेटापार्श्वे । (८) आकारयन् । (९) दशदिक्पालान् । (१०) पार्श्वजिनम् । (११) बहुवादित्रशब्दैः ॥ ४८ ॥
२९८
( १ ) आगतः । ( २ ) अजयराजसमीपे । ( ३ ) पश्चात् । (४) समुद्रसम्बन्धि वस्तु । (५) ढौकयित्वा । ( ६ ) कथयित्वा । ( ७ ) स्वोपसर्गापगमादिवार्त्ताम् । ( ८ ) मञ्जूषाम् । ( ९ ) उपदीचकार । (१०) राज्ञोऽग्रे । (११) रोगाणाम् । ( १२ ) प्रतिक्रियाम् । (१३) द्वाभ्यां प्रकाराभ्याम् । अन्तरङ्गरोगाणां कर्मणाम्, बाह्यरोगाणां ज्वरादीनां च प्रतिक्रियां-निवारिणीम् ॥४९॥ युग्मम् ॥
'प्रणीय पूजां क्षितिपेन 'पूर्वं, 'प्रोद्घाटिताया: प्रमदेन तस्याः । 'पार्श्वप्रभुः प्रादुरभूतमोभि-स्वानिव प्रागिरिकन्दरायाः ॥५०॥
(१) कृत्वा । (२) अर्चाम् । (३) राज्ञा । ( ४ ) प्रथमम् । ( ५ ) प्रकाशीकृताया । उद्घाटितद्वारायाः । (६) हर्षेण । (७) पेटायाः । (८) पार्श्वनाथ: । ( ९ ) प्रकटीबभूव । ( १० ) तमोऽज्ञानमन्धकारं च तस्य भेत्ता । ( ११ ) रविरिव । ( १२ ) उदयाचलगुहायाः ॥५०॥
'पार्श्वेशितुः स्नात्रजलाभिषेका-न्नतोऽजयोर्वीन्द्रतनूलतायाः । "महामयोत्थ: "प्रशशाम 'तापो, 'भूमेरिव 'ग्रीष्मभवोऽब्दवर्षात् ॥५१॥
(१) पार्श्वनाथस्य । (२) स्त्रपनपानीयसिञ्चनात् । (३) अजयराजस्य शरीरात् । ( ४ ) उत्कृष्टरोगजनितः । ( ५ ) शान्ति प्राप । ( ६ ) [ निदाघ: । (७) पृथिव्या इव । (८) उष्णकालोत्पादितः । ( ९ ) मेघवृष्टेः ॥ ५१ ॥
महामहः कोऽपि महीहिमांशौ, प्रावर्त्तताऽनामयतमवाप्ते 1
७
"मेने जनो यत्र 'निजं प्रपन्न - स्वः प्राज्यसाम्राज्यमिव प्रमोदात् ॥५२॥
(१) अतिशायी उत्सव:, अद्भुतवैभव: । ( २ ) राजनि । (३) प्रससार । ( ४ ) नीरोगताम् । (५) प्रपन्ने । (६) अमन्यत । (७) यस्मिन्महोत्सवे । (८) आत्मानम् । (९) प्राप्तं स्वर्गस्य समग्रं सम्यक्प्रकारेण वा आधिपत्यं यत्र । (१०) हर्षातिशयादिति ॥५२॥
'तदोपतापप्रकरैर्वियुक्तः, 'साकेतनेताऽप्यधिकं दिदीपे । "घनात्ययन्यक्कृतनीरवाहो-परोधनिर्मुक्त इवऽमृतांशुः ॥५३॥
(१) स्नात्रजलाभिषिञ्चनानन्तरम् । (२) रोगगणैर्विरहितः । ( ३ ) अयोध्याधिपतिः । (४) अतिशायितया दीप्यते स्म । ( ५ ) शरत्कालेन पराभूतस्य मेघस्य रुन्धनान्निर्मुक्तो - निर्गतः ।
(६) चन्द्रः ॥५३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org