________________
सप्तदशः सर्गः
२९७ (४) नयेः । (५) द्वीपनाम्नि नगरे । (६) अन्यस्य । (७) भूमेरिन्द्रस्य । (८) तत्र द्वीपपुरे। (९) अजयराजस्य । (१०) यच्छेः ॥४३॥
'उद्घाट्य पेटां प्रकटां प्रणीय, चित्रादिवल्लीमिव पार्श्वमूर्तिम् । 'छिनत्त्विदंस्नात्रजलाभिषेकात्, शतं स संप्तोत्तरमङ्गरोगान् ॥४४॥
(१) द्वारं विकाशीकृत्य । (२) दृग्गोचरां कृत्वा । (३) चित्रावल्लीमिव । (४) श्रीपार्श्वनाथप्रतिमाम् । (५) नाशयतु । (६) अस्याः पार्श्वप्रतिमायाः स्नात्रजलसिञ्चनात् । (७) स अजयनृपस्त्रिखण्डभोक्ता । (८) सप्तोत्तरशतस्वशरीरामयान् हन्तु । “स दिशः सकला जिष्णुर्जयन्प्राग्भवकर्मणा । सप्तोत्तरशतेनाथ व्याधिभिः परिपीडितः ॥१॥ आक्रामन्निति भूपालान्बलात्सौराष्ट्रमण्डलम् । क्रमात्प्रापदखण्डाशस्त्रिखण्डावनिमण्डनः ॥२॥" इति शत्रुञ्जयमाहात्म्ये ॥४४॥
'आसादितप्राणितवत्पुनः स्वं, 'विदन्निशम्येति 'गिरं 'त्रिदश्याः । "आनाययन्नीरधिनीरमध्या-ज्जनैः स "पोते 'जिनमूर्तिपेटाम् ॥४५॥
(१) सम्प्राप्तजीवितव्यमिव । (२) आत्मानम् । (३) मन्यमानः । (४) आकर्ण्य । (५) वाणीम् । (६) पद्मावत्याः । (७) आनायिता । (८) समुद्रजलमध्यात् । (९) व्यवहारी। (१०) वहने । (११) पार्श्वप्रतिमासम्बन्धिी पेटाम् ॥४५॥
'क्षणाददृश्योऽभवन्द्रिजाल-मिवोपसर्गोऽथ विभोः प्रभावात् । *चमत्कृतस्तत्सं विलोक्य पेटा-मभ्यर्च्य "भोगादि पुरो' चकार ॥४६॥
(१) क्षणमात्रात् । (२) जलदेवताजनितोपद्रवः । (३) क्षणदृष्टनष्टोऽजनिष्ट । (४) इन्द्रजालमिव । (५) वहने पार्श्वनाथप्रतिमासमागमनानन्तरम् । (६) भगवन्माहात्म्यात् । (७) विस्मयं प्राप्तः । (८) जलदेवतादिविघ्नविनाशादि । (९) सागरः । (१०) पूजयित्वा । (११) काकतुण्डायु(धु )त्क्षेपम् । (१२) पेटाया अग्रे चकार ॥४६॥
ततोऽनकलैः पवनैः पयोधौ, प्रवर्तितस्तव्यवहारिपोतः । "मत्तद्विपः सादिभिरध्वनीवा-ऽऽलानं "सुखं 'द्वीपपुरं प्रपेदे ॥४७॥
(१) विघ्नविगमानन्तरम् । (२) सुखप्रवृत्तिकारिभिः । (३) वातैः । (४) समुद्रे ।(५) प्रेरितः । (६) सागरयानपात्रः । (७) मदोद्धतहस्तीव । (८) आधोरणैः । (९) मार्गे । (१०) आलानस्तम्भम् । (११) सुखेन निर्विघ्नम् । (१२) द्वीपनगरम् । (१३) प्राप ॥४७॥ 'उत्तीर्य तर्याश्च बलिं 'विकीर्य, पेटामुपादाय सुतामिवाऽब्धेः । इहाँऽऽह्वयन्कि हरितां महेन्द्रा-न्याश्र्वं प्रणन्तुं घनतूररावैः ॥४८॥
आगान्पाभ्यर्णमथाऽर्णवीयं, वस्तूंपदीकृत्य 'निवेद्य वृत्तम् । “पेटां ड्ढौके स पुरः क्षितीन्दो-रुजां चिकित्सामिव तां द्विधाऽपि ॥४९॥ 1. पयोनिधौ हीमु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org