________________
३०२
श्री हीरसुन्दर' महाकाव्यम् 'गत्या जितोऽनेन किर्मभ्रकुम्भी, द्रष्टुं तमित्युत्सुकितोऽब्धिमध्यात् । 'किमेयिवानेष "तदन्ववायः, "शृङ्गारितास्तत्र गजा विरेजुः ॥६८॥
(१) मन्थरगमनविलासेन । (२) किं-कथं केन प्रकारेण । (३) ऐरावणः । (४) सूरिमवलोकयितुम् । (५) उत्कण्ठितः । (६) अमुना प्रकारेण । (७) समुद्रजलमध्यात् । (८) आगतवान् । (९) एष प्रत्यक्षदृश्यमानः । (१०) गजघटारूपः । ऐरावणस्य समुद्रमध्यान्निःसृतत्वात्तत्र च समुद्रस्य सामीप्यादियमुत्प्रेक्षा ।(११) सिन्दूरादिशृङ्गारप्रापिताः । (१२) सूरिसम्मुखागमनावसरे ॥६८॥
पर्याणितास्तत्र तुरङ्गमास्तै, रेजुर्जवाधःकृतवातवेगाः । यन्नर्जिता भानुमतस्तुरङ्गा, “हियेव नाऽद्यापि भुवं स्पृशन्ति ॥६९॥
(१) पल्ययनयुक्तीकृताः । (२) हयाः । (३) ते इति तादृशा येऽने उत्प्रेक्षां प्रापिताः । अथवा ते इति सिन्धुकच्छादिजातीयाः प्रसिद्धाः । (४) वेगविनिर्जितवायुरंहसः । (५) यैस्तुरगैः पराजिताः । (६) सूर्यस्य । (७) हयाः । (८) लज्जयेव । (९) अद्य दिनं यावत् । (१०) भुवं न स्पृशन्ति - भूमौ नागच्छन्ति । लज्जिता हि मुखं दर्शयितुमनलंभूष्णवः ॥६९॥
रथाङ्गभाजस्त्वरमाणतााः , सुजातरूपा धननन्दकाश्च ।
अम्भोजनाभा इव कामराम-शोभाः शताङ्गाः शतशः प्रचेलुः ॥७०॥
(१) रथाङ्गं-रथचक्रं सुदर्शनचक्रं वा भजन्ते इति । (२) शीघ्रगामिनो वाजिनो गरुडाश्च येषाम् । (३) शोभनं जातमुत्पन्नं रूपं आकारविशेषः स्वर्णं च येषु । (४) बहून्हर्षयन्तीति, निबिडनन्दकनाम खङ्गं च येषां ते । (५) कृष्णा इव । (६) काममतिशयेन रामा-मनोज्ञा शोभा येषां तथा प्रद्युम्नबलभद्राभ्यां शोभा येषाम् । (७) रथाः । (८) शतसङ्ख्याः ॥७०॥
'तूरस्वरैश्चित्कृतिभी रथानां, हयालिहेषा गजगर्जितैश्च ।
नृणां स्तवादिध्वनि र्वतीन्दोः, “श्लोकैरिवाऽपूरि समग्रलोकः ॥७१॥
(१) वाजि( दि)निर्घोषैः । (२) चित्कारशब्दैः । (३) अश्वश्रेणीनां हेपारवैः । (४) हस्तिनां गर्जितैः । (५) श्राद्धभाट्टगायनादिजनानाम् । (६) स्तुतिछन्द( दो )गान्धर्वप्रमुखशब्दैः । (७) हीरसूरेः । (८) यशोभिरिव । (९) पूर्णीकृतः । निर्भर भृत इत्यर्थः । (१०) समस्तश्चतुर्दिक्पर्यन्तभूमी यावद्भुवनम् ॥७१॥
'स्त्रीभ्यस्तदा य( त )द्गुणगायनीभ्यः, पैञ्जूषपीयूषरसाभिषेकाम् । 'वाणीमधीत्याऽभ्यसितुं वनस्थाः, शिष्या इवाऽऽसन्कलकण्ठकान्तों ॥७२॥
(१) दशाभ्यः सकाशात् । (२) सूरीन्द्रगुणानां गानं कीभ्यः । (३) सम्मुखागमनसमये । (४) श्रवणयोः सुधारससिञ्चकाम् । (५) वाग्विलासम् । (६) पठित्वा । (७) अभ्यासं कर्तुम् । (८) वनस्थायिनः (९) शिष्या अप्यधीत्यैकान्तेऽभ्यसन्ति, तद्वत् । (१०) जाताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org