________________
२९३
सप्तदशः सर्गः 'शत्रुञ्जयाद्रेर्महिमैकसिन्धोः, सान्निध्यतोऽसावपि सिन्धुराँसीत् । 'माहात्म्यभूमिः "किमु किं न गङ्गा-सङ्गेन गङ्गीयति सिन्धुरैन्या ॥२२॥
(१) विमलाचलस्य ।(२) माहात्म्यस्याऽद्वैतसमुद्रस्य । (३) सामीप्यात् पार्वे स्थित्याः । (४) असौ-शत्रुञ्जया सरिदपि । (५) महिम्नां प्रभावानां( णां) निधानं-स्थानम् । (६) जाता। (७) दृष्टान्तेनाऽर्थं स्पष्टयति । (८) गङ्गायाः सङ्गमेन - गङ्गाजलसम्पर्केण । (९) गङ्गेवाऽऽचरति, गङ्गैव भवति । "गङ्गीयत्यसितापगा" इति खण्डप्रशस्तौ । (१०) अपरापि नदी ॥२२॥
'पुन्नागनारङ्गरसालसाल-प्रियालहन्तालतमालतालैः ।
कदम्बजम्बीरसनिम्बजम्बू-सर्जार्जुनैरञ्जनवञ्जुलैश्च ॥२३॥ 'कङ्केल्लिभिर्भूषिततीरभूमि-र्यावन्मनोऽभीप्सितदानदक्षा । स्वःसालतायाः स्पृहयोऽऽत्मनीव, सर्वैर्दुमैः सिन्धुंरुपास्यते या ॥२४॥ युग्मम् ॥
(१) सुरपर्णिका वृक्षविशेषः, नागरङ्गः प्रसिद्धः, सहकारः, असनः, राजादनः, हन्तालनामा देशविशेषप्रसिद्धतरुः, तापिच्छः, तालः प्रसिद्धः । (२) नीपं धाराकदम्बः, जम्बीरः प्रसिद्धः, पिचुमन्दयुक्तः, जम्बू प्रसिद्धः, देवदारुः, अर्जुन: मेरौ प्रसिद्धः वृक्षविशेषः, वानीरः ॥२३॥
(१) अशोकैः । (२) शोभिततटभूमिः । (३) सर्वेषां मानसिकानां कामानां प्रपूरणे कुशला । कामितकामधेनुरित्यर्थः । (४) कल्पद्रुमभावस्य । (५) वाञ्छया ।(६) स्वस्मिन्विषये। (७) समग्रैर्दुमैः । (८) शत्रुञ्जया नदी । (९) सेव्यते ॥२४॥ युग्मम् ॥
कदा पुनदर्शनमस्य भावि, ध्यायन्निदं स्वीयहृदा मुनीन्दुः । 'तीर्थं स तीर्थेशमिव प्रणम्य, 'पथि 'प्रतस्थे "प्रथितावदातः ॥२५॥
(१) कस्मिन्काले । (२) व्याघुट्य । (३) शत्रुञ्जयस्य । (४) भविष्यति । (५) चिन्तयन् । (६) निजमनसा । (७) सूरिः । (८) शत्रुञ्जयम् । (९) जिनमिव । (१०) नत्वा । (११) मार्गे । (१२) प्रचचाल । (१३) विश्वविख्यातचरितः ॥२५॥
'मेरूनिव क्चापि 'सुवर्णवान्, कुत्राऽपि रौप्यानिति शर्वशैलान् । "अप्याँश्मगर्भानिव विन्ध्यभूध्रा-सिद्धाद्रिकूटान्पथि "दृष्टवान्सः ॥२६॥
(१) सुराद्रीन् । (२) कस्मिन्नपि स्थाने । (३) शोभनवर्णैः कनकैर्विवर्णनीयान् । (४) रजतमयान् । (५) कैलाशानिव । (६) पुनः । (७) मरकतमणिमयान् । (८) विन्ध्याचलानिव । (९) शत्रुञ्जयशिखराणि । (१०) ददर्श ॥२६॥
'कुत्राऽपि बन्धूनिव नन्दनस्य, निकुञ्जपुञ्जान्सुमनोऽभिरामान् । वेणीरिव व्योमपयोधिपत्न्याः, कूलङ्कषाः वापि विशुद्धवारः ॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org