________________
ऐं नमः ॥
सप्तदशः सर्गः ॥ अथ व्रतीन्द्रोऽभ्युदयं दधाने, 'बिम्बे नभय॑म्बुजबान्धवस्य । मूर्जा धृते पूर्वदिशेव भद्र-कुम्भे "स 'नाभेयजिनं ननाम ॥१॥
(१) शत्रुञ्जययात्राकरणानन्तरम् । (२) हीरविजयसूरिः । (३) उद्गमं बिभ्रति । उदिते इत्यर्थः । (४) गगने । (५) मण्डले । (६) भानोः । (७) मस्तकेन । (८) प्राचीदिशा । (९) मङ्गलकलशे । (१०) सूरिः । (११) ऋषभतीर्थनाथम् ॥१॥
'अन्याननन्यां मुदमादधानः, पुनर्व्यनंसीस 'जिनावनीन्द्रान् । शत्रुञ्जयाद्रेरिव भूषणेषु, शेषेषु चैत्येषु "हिरण्मयेषु ॥२॥
(१) परान् । (२) असाधारणाम् । (३) आ-सामस्त्येन मनोवाकायैर्बिभ्राणः । क्वचित् कुमार-सम्भवादौ धरणार्थेऽप्यादधान इति दृश्यते च । (४) नमति स्म । (५) सूरिः । (६) जिनराजान् । (७) आभरणेषु (८) अवशिष्टेषु । (९) प्रासादेषु । (१०) स्वर्णनिर्मितेषु ॥२॥
शत्रुञ्जयोर्वीधरसार्वभौम-मौलेर्दधानो 'विशदाशयं सः । अवातरनिर्जरनिर्झरिण्या, इव प्रवाहो 'मिहिकाद्रिशृङ्गात् ॥३॥
(१) विमलगिरिचक्रिशिखरात् । (२) निर्मलं चित्तमुज्ज्वलमध्यं च । (३) उत्तरति स्म । (४) गङ्गायाः । (५) जलपूरः । (६) हिमाचलशिखरात् ॥३॥
'अलंकरोति स्म स पादलिप्त-पुरं पुरन्ध्रीगणगीयमानः । 'सहस्ररश्मेरिव रश्मिराशि-रुदीयमानद्विजराजबिम्बम् ॥४॥
(१) भूषयति स्म ।(२) सूरिः ।(३) पालीताणाभिधनगरम् । (४) वनितावर्गीयमानः । (५) सूर्यस्य । (६) करनिकरः । (७) उदयच्चन्द्रमण्डलम् ॥४॥
स प्रार्थितो 'द्वीपजनव्रजेन, स्वपत्तनं पावयितुं व्रतीन्द्रः । चित्रादिर्ना सारथिनेव केशी , वशीशिता श्वेतबिकाभिधानम् ॥५॥
(१) सूरिः । (२) विज्ञप्तः । (३) द्वीपबन्दिरसङ्घलोकेन । (४) निजनगरम् । (५) पवित्रं कारयितुम् । (६) श्रावस्तीनगरी राजकार्यार्थं गतेन चित्रसारथिना । (७) केसीनामा गणधरः । (८) श्वेतम्बिकानिजनगरीम् ।
'निश्चिक्य 'चित्तेऽजयपार्श्वभर्तु-र्यात्रां स शत्रुञ्जयवर्द्रतीन्द्रः । कथञ्चिदप्याग्रहमस्य मेने, “सेनेशवत्सोऽपि ततः प्रतस्थे ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org