SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २८६ श्री हीरसुन्दर' महाकाव्यम् (३) त्रिजगज्जनानाम् । (४) विधिना । (५) देवानाम् । (६) धेनुः । कामगवीव । (७) असाधारणा । सर्वाभिलाषकारकत्वात् । (८) कृता ॥१२८॥ वर्षत्यसौ 'शिरसि सङ्गपतेः पयोभि 'जम्भारिराजिरिव जन्ममहे जिनेन्दोः । 'मुक्त्यङ्गना पुनरियं वयसीव रङ्गा त्पुंसाऽनुषङ्गयति "सङ्गमकामुकेन ॥१२९॥ (१) मस्तके । (२) सङ्घाधिपस्य । (३) दुग्धैः । (४) चतुःषष्टिसुरेन्द्रा इव । (५) जिनेन्द्रजन्माभिषेके पानीयैः । (६) शिववधू । (७) सखीव । (८) स्नेहादानन्दाद्वा । (९) पुरुषेण । (१०) सङ्गमं कारयति । (११) सङ्गमाभिलाषुकेण ॥१२९॥ सम्प्राप्तः पूर्ववारान्नवनवतिमितानादिदेवस्तलेऽस्या स्तोऽर्चेवाऽर्चनीयाऽस्त्य॑सुरनरमरुत्पुङ्गवैः पादुकाऽस्य । भ्रश्यत्पर्णादिचूर्णैर्भुवनतनुभृतां भूतवेतालरक्षो यक्षाद्याशेषदोषानपहरति पुनर्या च रोगान्सुधेव ॥१३०॥ (१) समवसृतः । (२) नवनवति पूर्ववारान् । (३) ऋषभप्रभुः । (४) राजादनीतरुतले। (५) तत्र-प्रियाद्रुमाधः । (६) भगवत्प्रतिमेव । (७) पूजयितुं योग्या । (८) त्रिभुवनतै( जनैः)। (९) ऋषभदेवपादुका । (१०) स्वयं निष्पततां पत्रप्रमुखाणां क्षोदैः । (११) जगज्जनानाम् । (१२) भूतप्रेतादिशेषदोषान् । (१३) नाशयति । (१४) कुष्टादिरोगांश्च । (१५) अमृतमिव ॥१३०॥ 'श्रीवाचंयमपञ्चकोटिकलितः श्रीपुण्डरीको गणी, 'चैत्र्यामंत्र दिने महीमिर्व जयी सिद्धि मुदाउँसाधयत् । यत्किञ्चित्क्रियते जनैरिह नगे दानोपवासादिकं, तत्स्यात्तेन "दिनेऽत्र कोटिगुणितं दानं सुपात्रे यथा ॥१३१॥ (१) श्रिया युक्तानां मुनीनां पञ्चकोटिभिः सहितः । (२) पुण्डरीकनामा गणधरः । (३) चैत्रेण युक्ता पौर्णमासी-चैत्री, तस्याम् । चैत्रपूर्णिमायामित्यर्थः । (४) अत्र-शत्रुञ्जये । (५) दिवसे । (६) जित्वरनृपः । (७) साधितवान् । (८) विमलाचले । (९) विश्राणनोपवसनादिकम् । (१०) तेन कारणेन पञ्चकोटिमुनिमोक्षगमनहेतुना । (११) चैत्रीदिने। (१२) सुपात्रदानमिव ॥१३१॥ 'शाश्वताद्रिरिवोऽनन्त-समयस्थायुकोऽस्त्यसौ । 'कालक्रमात्पुनर्धत्ते, शशीवोपचयक्षयौ ॥१३२॥ 1. ०कोऽस्त्ययम् हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy