________________
षोडशः सर्गः
२८५ 'हृदभिलषितसिद्धीरैंहिकामुष्मिकाद्या-स्त्रिजगति देदतो मे के 'पुरो यूयमाँध्वे । इति किमु सुरवृक्षानै हिकार्थान्ददाना-स्तृणयति खगरावैर्यद्वैटः सिद्धनामा ॥१२४॥
(१) हृदयेन-मनसा कामिताः सिद्धीः । (२) इहलोकसम्बन्धिनी: परलोकसम्बन्धिनीश्च, तत्प्रमुखाः । इहलोकेऽपि बह्वीरपि सिद्धीर्जीवः कामयते । (३) त्रिभुवनेऽपि । त्रिजगज्जनानामित्यर्थः । (४) यच्छतः । (५) ममाऽग्रे । (६) यूयं के वराकाः । (७) भवथ । (८) कल्पद्रुमान । (९) इहलोकसम्बन्धिवस्तुप्रदानसमर्थान् । (१०) तिरस्करोति । (११) विहङ्गमविरुतैः । (१२) शत्रुञ्जयस्य सिद्धवटः ॥१२४॥ 'यस्मिन्नित्थमंशापि पात्रसलिलक्षेपात्®धा साधुना
काकः कोऽपि कदाऽपि मास्त्विह नगे "जातप्रवेशः क्वचित् । मातङ्गेऽस्य सतामिवौकसि ततस्तत्राऽप्यभूदँ क्षयं
स्थाने तद्वचसाऽम्बु पद्मनदवद्विश्वैकमाहात्म्यभृत् ॥१२५॥ (१) पर्वते । (२) अनेन प्रकारेण । (३) शप्तः । (४) यतिसम्बन्धे भाजनात्सलिलक्षेपणेन ढौलनेन । (५) कोपेन । (६) पात्रस्वामिना मुनिना । (७) कोऽपि काकः । (८) अस्मिन्शत्रुञ्जये । (९) कदाचिदपि । (१०) मा भवतु । (११) जातो-भूतः प्रवेशः-समागमो यस्य । (१२) चाण्डालस्य । (१३) उत्तमजातीनाम् । (१४) मन्दिरे । (१५) तदनन्तरम् । (१६) तत्र-स्थाने जलक्षेपणभूमौ । (१७) साधुगिरा । (१८) पानीयमक्षयम् । (१९) पद्महूद इव । (२०) त्रैलोक्येऽप्यसाधारणमहिमधाम ॥१२५॥
महीपालभूभृन्मुखाणामिवैत-नृणां कुष्टकष्टादिनिर्घातनिष्णम् । 'मरुल्लोलकल्लोललीलायमाना-रविन्दव्रजं सूर्यकुण्डं विभाति ॥१२६॥
(१) महीपालनामा राजा तत्प्रमुखाणाम् । (२) नराणाम् । (३) अष्टादशकुष्टरोगाणां निवारणचतुरम् । (४) पवनैर्ये चपलास्तरङ्गास्तेषु लीलया चरत्कमलानां व्रजो यत्र ॥१२६॥
'पुण्डरीकाचलोभ्व, महिमैकनिकेतनम् । 'राजादनी विभात्येषा, मुषिताशेषकल्मषा ॥१२७॥
(१) शत्रुञ्जयभूमिरिव । (२) माहात्म्यस्याऽद्वैतं गृहम् । (३) प्रियालतरुः । (४) नाशितसमग्रपापा ॥१२७॥
ऐहिकामुष्मिकानल्पसङ्कल्पिता-न्यङ्गभाजां सृजन्ती 'त्रिलोकीभुवाम् । वेधसा स्वर्गिणां गौरपूर्वेव या, “निर्मिता राजते यत्र राजादनी ॥१२८॥
(१) इहलोकसम्बन्धिनः परलोकसम्बन्धिनश्च बहवो मनोरथास्तान् । (२) पूरयन्ती । 1. ०ङ्गो महतामि० हीमु० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org