________________
षोडशः सर्गः
२७९ (१) नत्वा । (२) मरुदेवाम् । (३) हस्तिस्कन्धमारूढाम् । (४) गर्भालयम् । (५) उत्प्रेक्ष्यते । (६) देवच्छन्दकम् । (७) स्वस्वरूपेण । (८) विकसितनयनपर्णकैः । (९) सादरमवलोकयन् । (१०) वचनमनसोर्विषयातीताम् । (११) प्रीतिम् । (१२) प्राप ॥१९॥ 'जिनानननिशीथिनीपतिनिरीक्षणप्रोल्लसद्
हृदन्तरमुदम्बुधिस्फुरदभङ्गभङ्गैरिव । स गौतमगणीन्द्रवच्चैरममादिमं श्रीजिनं,
'सुधामधुरिमाङ्कितैरभिनवैः स्तवैस्तुष्टुवे ॥१००॥ (१) जिनवक्त्रचन्द्रालोकनेनोल्लासं गच्छन्यो हृदयमध्यस्थप्रमोदाम्बुधिस्तस्य स्फुरद्भिरखण्डकल्लोलैरिव । (२) गौतमस्वामिवत् । (३) महावीरम् । (४) पीयूषस्य माधुर्यकलितैः । (५) नूतनैः । (६) 'ष्टुञ्' धातुरुभयपदी ॥१००॥ 'जय त्रिदशशेखरोन्मिषितपुष्पमालागल
न्मरन्दकणमण्डलीस्नपितपादपद्मद्वय ! । जयाँऽमृतनितम्बिनीहृदयतारहारो जग
त्रयीजनसमीहितं 'त्रिदशसालवन्पूरयन् ॥१०१॥ (१) सर्वोत्कर्षेण प्रवर्तस्व । (२) सुराणामवतंसानां स्मितकुसुमानां मालिकाभ्यः पतन्तीभिर्मकरन्दबिन्दुधोरणीभिः धौतचरणकमलयुगल ! । (३) मुक्तिकान्ताया हृदयस्थले उज्ज्वलहारः । (४) त्रैलोक्यलोककामितम् । (५) कल्पगुरिव । (६) यच्छन्, हे पूरयन् ! सम्बोधने च । शत्रानशाविति प्रक्रियासूत्रेण सम्बोधनेऽपि शतृप्रत्ययः । तथा-"गतिस्तयोरेष जनस्तमर्दयन्" इति नैषधेऽपि सम्बोधनपदम् ॥१०१॥ जयोल्लसितकेवलामलतमात्मदर्शोदरा
नुबिम्बितजगत्त्रयाखिलपदार्थसार्थ ! प्रभो ! । जय त्रिभुवनाद्भतातिशयपद्मिनीसद्मना,
'विनिद्रवनवीरुधा विटपिवेत्परीरम्भित ! ॥१०२॥ (१) लोकालोकप्रकटीकारकं यत्केवलज्ञानं तदेवाऽतिशायि निर्मलदर्पणमध्यम्, तत्र प्रतिबिम्बिताः त्रैलोक्यस्य समस्ता वस्तुव्रजा यस्य । (२) त्रिजगत्सु आश्चर्यकारिणो येऽतिशयास्त एव तेषां वा लक्ष्मीः, तया । "पद्मिनी कमलकमलिन्यो" रित्यनेकार्थः । (३) विकचकाननवल्लया । (४) द्रुम इव । (५) आलिङ्गित ! ॥१०२॥
1. समालिङ्गित हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org