SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २७८ श्री हीरसुन्दर' महाकाव्यम् (१) राजादन्यपि । (२) क्षयमलभमाना । (३) मन्त्रतन्त्रविद्यानां विविधाः सिद्धयो यस्य स सिद्ध उच्यते । सिद्धश्चासौ शैलश्च, तस्य य आश्रयस्तस्मात् । (४) अनन्ताः साधवः । "ब्रह्मशर्म किल चारुयतीवे'"ति नैषधे । (५) मुक्तिम् । (६) अस्या अधोभुवि । (७) ऋषभदेवपादुका । (८) अधिष्ठात्री देवीव । (९) कामधेनुः । (१०) सम्पूरितमनोरथा । (११) प्रियालतरुः ॥१५॥ 'विहारमिव संमदाबेंतिवसुन्धरावासवः, प्रदक्षिणयति स्म तत्प्रथमतीर्थकृत्पादुकाम् । 'जिनाधिपमिाऽध्वनि द्रुमपरम्परा तं तदा, ननाम किमु भक्तितः फलभराच्च राजादनी ॥१६॥ (१) प्रासादमिव । (२) हर्षात् । (३) सूरिः । (४) युगादिजिनपादुकाम् । (५) अर्हन्तमिव । (६) मार्गे । (७) तरुपतिः । (८) फलभारेण ॥१६॥ समीक्ष्य शिखिभोगिनौ स सखिवन्मिथः सङ्गतौ, ततो यतिमतङ्गजो जिननिशीथिनीनायकान् । 'जसूप्रथमठक्कुरप्रवररामजीकारितो ल्लसज्जिनविहारयोस्त्रिचतुरास्ययोंर्नेमिवान् ॥१७॥ (१) दृष्ट्वा । (२) मयूरसौ । (३) सूरिः । (४) जिनेन्द्रान् । (५) जसूठारस्तथा रामजीनामा ताभ्यां निर्मापितौ त्रिमुखचतुर्मुखौ विहारौ, तयोर्विषये । (६) नमति स्म ॥१७॥ स' भक्तिमिव नाभिभूप्रभुपुरोनिशस्थायिनं, प्रणम्य गणधारिणं तदनु पुण्डरीकाभिधम् । "जिनेन्द्र इव देशनासदर्नमादिदेवालयं, ___ समं "मनुजराजिभिः "श्रमणपुङ्गवः 'प्राविशत् ॥१८॥ (१) सेवासक्तमिव । (२) ऋषभदेवाग्रे । (३) नित्यं वसनशीलम् । (४) नत्वा । (५) पुण्डरीकनामानम् । (६) गणधरम् । (७) अर्हन्निव । (८) समवसरणम् । (९) ऋषभविहारम् । (१०) मानवमालिकाभिः समम् । (११) सूरिः । (१२) प्रविष्टः ॥१८॥ प्रणम्य जननी जिनेशितुरिंभं समासेदुषीं, स गर्भभवनं पुनः 'किमु न देवंयुक्छन्दकम् । जिनं स्वयमिव स्थितं 'विकचनेत्रपत्रैः पिब नवाङ्मनसगोचरां मुदमविन्दत श्रीप्रभुः ॥१९॥ 1. के हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy