SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २७७ षोडशः सर्गः 'जिनेन्द्रभवनं 'शिखोदयनभःपरीरम्भिणं, व्रतिक्षितिशतक्रतुः स चरणश्रिया सङ्गतः । सुमेरुमुँडुमालया सममिवौषधीनायकः, प्रदक्षिणयितुं मुर्दाऽऽरभत गीतिभिः सुभ्रुवाम् ॥१२॥ (१) प्रासादः । (२) शिखरस्योदयेनोच्छायेन गगनालिङ्गनशीलम् । "उच्छे त्से )द उदयोच्छायौ'' इति शिखोच्चत्वे । (३) सूरिः । (४) चारित्रलक्ष्या । (५) युतः । (६) मेरुपर्वतम् । (७) तारकश्रेण्या सार्द्धम् । (८) विधुः । (९) प्रदक्षिणीकर्तुम् । (१०) प्रारभत । (११) स्त्रीणां गानैः ॥१२॥ स देवकुलिकान्तरे 'जिनपुरन्दरान्समदा दवन्दत तदा जिनाधिपनिकेतनस्याऽभितः । मरुद्वसतिवत्ततः सुरपरम्परोपासिता, *व्यलोकि विभुना पुरः प्रमुदितेन राजादनी ॥१३॥ (१) लघुदेवगृहाणामन्तरे ।(२) जिनबिम्बान् । (३) मूलप्रासादस्य ।(४) स( प )रितः । (५) स्वर्ग इव । (६) देवमालाशीलिता। (७) दृष्टा । (८) सूरिणा । (९) अग्रे ।(१०) हृष्टेन । (११) राजादनी - "नवनवति पूर्ववारान् यस्मिन्समवासरयुगादिजिनः । राजादनीतरुतले विमलगिरिरयं जयति तीर्थम् ॥” इति पूर्वसूरिस्तवे ॥१३॥ अवऱ्यात समौक्तिकै 'रजतहेमपुष्पव्रजै जगद्गुरुरिवोऽङ्गिभिः सुमनसां समूहैः श्रिता । 'गिरेरिव घेनागमोनमदमन्दकादम्बिनी, ववर्ष "पयसां भरैः शिरसि सङ्घभर्तुश्च या ॥१४॥ (१) वद्धिता । (२) मुक्ताफलसहितैः । (३) रूप्यस्वर्णकुसुमैः । (४) जिनः हीरसूरिर्वा । (५) जनैः । (६) देवानां पुष्पाणां वा । (७) गणैराश्रिता । (८) पर्वतस्य । (९) प्रावृट्काले उनमन्ती बहुला मेघमाला । (१०) वर्षति स्म । (११) पयसां-दुग्धानां जलानां च । (१२) समूहैः । (१३) मस्तके । (१४) सङ्घपतेः ॥१४॥ असावपि किर्मक्षयाजनि न 'सिद्धशैलाश्रया 'दनन्तयतिनः 'शिवश्रियमवापुरैस्यास्तले । युगादिजिनपादुका किमधिदेवतास्या मरु द्रवीव "विहितेहिता श्रियमुवाह "राजादनी ॥१५॥ 1. स शमपद्मया हीमु० । 2. प्रदक्षिणयितुं मुदारभत गीतिभिः सुभ्रुवां, सुमेरुमुडुमालयेव सममौषधीनायकः ॥ हीमु०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy