SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २७४ श्री हीरसुन्दर' महाकाव्यम् कन्याम् । (६) स्वयंवरस्थानम् । (७) समागताः । (८) समकालम् । (९) प्रासादमध्यमण्डपे। (१०) बहवो रचना गोचरीकृताः । (११) देवदानवनराणाम् । (१२) व्रजाः । (१३) 'ददि दाने' आत्मनेपदी ॥८०॥ 'भवच्चरणसेवनैरधिगता धुलोकश्रियं, विनै नरजन्मना दिश शिवश्रियं श्रीप्रभो ! । "उपेत्य 'जिनमन्दिरान्तरमितीव विज्ञीप्सया, भजन्ति सुरसुभ्रवः प्र मनन्यचित्रोपधेः ॥८१॥ (१) श्रीमत्पदपद्मसेवाभिप्राप्ताः । (२) स्वर्गलोकलक्ष्मीम् । (३) मनुष्यावतारं विनैव। (४) मोक्षलक्ष्मीम् । (५) समागत्य । (६) चैत्यमध्ये । (७) विज्ञप्ति कर्तुमिच्छया । (८) देव्यः । (९) असाधारणालेख्यमिषात् ॥८१॥ प्रयोजयति नः सदा स्वपदसाभिलाषीभव __ त्तपस्वितपसां व्ययीकृतिविधौ विभो ! जम्भभित् । इमां "जहि विडम्बना किमिति भाषितुं मण्डपे ऽथ “वाऽप्सरस आगताः परिचरन्ति "चित्रोपधेः ॥८२॥ (१) प्रेषयति । (२) न:-अस्माकमप्सरसाम् । (३) इन्द्रपदप्राप्त्यभिलाषेण तपः कुर्वतां तापसानां तपसाम् । (४) क्षयीकरणप्रकारे । शक्रप्रेषिता अप्सरसः प्रेक्ष्य ध्यानभङ्गात्तद्रूपमोहितास्तां कामयन्ते तपस्विनः ततः सर्वं स्वकीयं तपो हारयन्तीति प्रसिद्धिः । (५) शक्रः । (६) येषां तेषां वृद्धकृशाजातिप्रमुखतापसाङ्गलक्षणां विडम्बनाम् । (७) निवारय । (८) उर्वशीप्रमुखाप्सरसः । (९) समेताः । (१०) सेवन्ते । (११) द्वितीयपक्षे चित्रव्याजात् ॥८२॥ कुतूहलिकृतासितोपलतलोर्ध्वमध्यां क्वचि न्महारजतनिर्मिता जिननिकेतनस्तम्भकाः । विचित्रसुरविभ्रमं प्रदधतः श्रियं बिभ्रते, 'तलोपरि विचालभाग्वनभृतः किमु स्वर्नगाः ॥८३॥ (१) केनापि कौतुकिना शिल्पिना निर्मितानि नीलरत्नस्तलमूर्ध्वभूर्मध्यं येषां तादृक शः)। (२) स्वर्णरचितस्तम्भाः । (३) नानाप्रकारं देवानां विलासम् । (४) धारयन्तः । (५) अधः शिखरं मध्यं च भजन्ते, तादृशानि विपिनानि भद्रसालनन्दनपाण्डुकसौमनसाख्यानि बिभ्रतीति । (६) तादृशा मेरव इव । हर्रिर्य इह सेवकस्तव जिनेन्द्र ! सोऽस्मद्विष विधापय 'मिथस्ततस्त्वदमुना समं सौहृदम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy