SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः 'मृगाङ्ककरसङ्गमक्षरदमन्दपाथः प्लवै `र्यदुच्चशिखेरं तमीमणिमणीगणैर्निर्मिर्तम् । "रजोभिरवगुण्ठितं प्रबलगन्धवाहव्रजै "र्वपुः पवितुमात्मनो जिनगृहं निशि 'स्नाति किम् ॥७७॥ ( १ ) चन्द्रकिरणसङ्गमात्पतदविरलजलपूरैः । ( २ ) प्रासादस्य गगनसङ्गिशृङ्गम् । (३) चन्द्रकान्तरत्ननिर्मितम् । (४) धूलीधूसरितम् । (५) उत्कटपवनप्रकरैः । ( ६ ) शरीरम् । (७) पवित्रि( त्री )कर्त्तुम् । ( ८ ) स्वस्य । ( ९ ) रात्रौ । (१०) स्नानं करोति ॥७७॥ 'स्फुटस्फटिककल्पिता 'क्वचन 'जाह्नवीवाऽवनी, क्वचिन्मेरकताङ्किता "स्थिरजला यमीवाऽजनि । कृतारुणमणीगणैः "किमुत "कुमैरेचिता, क्वचिद्विकचचम्पकैः "परिचितेव चन्द्राञ्चिता ॥७८॥ ( १ ) प्रकटं यथा स्यात्तथा श्वेतरत् रचिता । (२) कुत्रापि । ( ३ ) गङ्गेव । ( ४ ) भूमी । (५) नीलमणिनिर्मिता । ( ६ ) अचपलसलिला । (७) यमुनेव । (८) पद्मरागैः । ( ९ ) कृता । निर्मितेत्यर्थः । ( १० ) उत्प्रेक्ष्यते । ( ११ ) घुसृणै: । ( १२ ) पूजिता । (१३) स्मितचम्पककुसुमैः । (१४) सहितेव । (१५) सुवर्णेन निर्मिता ॥७८॥ 'सुरासुरनरस्फुरन्मिथुनचारुचित्रव्रजः, पोष सुषमा जिनावसथमण्डपस्याऽन्तरे । "जगत्त्रयमिवऽऽगतं विमलशैलयात्राकृते, Jain Education International स्थितं किमतिभावतः पुर्नरिहाऽर्हतः सन्निधौ ॥७९॥ ( १ ) देवदानवमानवानां शोभां प्राप्नुवतां मिथुनानां युगलानां चारूणि चित्राणि आलेख्यानि, तेषां गणः । ( २ ) पुष्णाति स्म । ( ३ ) सातिशायिनीं शोभाम् । ( ४ ) प्रासादमण्डपस्य मध्ये । (५) त्रैलोक्यम् । (६) समेतम् । (७) शत्रुञ्जयस्य यात्रार्थम् । (८) अधिकवासनात् । ( ९ ) इह प्रासादे । (१०) भगवत्समीपे ॥ ७९ ॥ 'वरीतुमृताह्वयमिह 'पतिवरां कन्यकां, २७३ स्वयंवरणमण्डपे किमुँपजग्मिवांसः समम् । 'जिनेन्द्रग्रहमण्डपे 'बभुरंनल्पशिल्पीकृताः, "सुरासुरधरास्पृशां समुदया "ददन्ते मुदम् ॥८०॥ (१) पाणौ ग्रहीतुम् । (२) मुक्तिनाम्नीम् । ( ३ ) इह चैत्ये । ( ४ ) स्वयंवराम् । (५) 1. ०खरात्तमी० हीमु० । 2. ०तात् हीमु० । 3. लसदन० हीमु० । For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy