________________
२७२
श्री हीरसुन्दर' महाकाव्यम् १°पटु १"प्रकटयाम्यहं १२गणिवदस्य तीर्थस्य त
"त्प्रभावमैतिशयिनं त्रिभुवनौद्विचिन्त्येति किम् ॥७४॥ जिनेन्द्रसदनाम्बरान्तरनुषङ्गिशृङ्गाङ्गणा
निलप्रचलकेतनस्फुरदकुण्ठकण्ठीरवः । पुरस्त्रिजगदङ्गिनामिति निजान्तिकावासभाग
__रणज्झणितिकिङ्किणीकणमिषेण किं भाषते ॥७५॥ त्रिभिर्विशेषकम् ॥ (१) ज्ञानवान् । (२) जनानां सन्देहनिवारकः । (३) मुक्तिगामुकश्चरमशरीरी । (४) भुवने । (५) पूर्वस्मिन् काल इव । (६) विलोक्यते । (७) मोक्षदायकः । (८) सेवायोग्यताम् । (९) स्थानम् । (१०) माहात्म्यान्येव सम्पत्तयस्तासाम् । (११) अद्वैतः । (१२) अयमेव शत्रञ्जयपर्वतः ॥७३॥
(१) नित्यम् । (२) आकार एव कायो यस्य । (३) चरणम् । (४) भजामि । (५) यस्य जिनस्य । (६) प्रतिपादितम् । (७) इदं पूर्वोक्तं शैलमाहात्म्यम् । (८) भुवने । (९) तेन-मम प्रभुणा वीरेण । (१०) स्पष्टम् । (११) प्रकटि( टी )करोमि । (१२) गणधर इव । यथा जिनेनाऽर्थात्प्रतिपादितं सूत्रं गणभृद्विस्तारयति तथाऽहमपि शत्रुञ्जयस्य । (१३) अनुत्तरम् । (१४) माहात्म्यम् । (१५) इति विचार्य ॥७४॥
(१) प्रासादस्य गगनमध्ये सानुषङ्गोऽस्याऽस्तीति तादृक्शृङ्गोपरि पवनप्रचले ध्वजे दृश्यमानामन्दमृगेन्द्रः । (२) जगतां यावज्जनानाम् । (३) इत्यमुना प्रकारेण । (४) स्वसमीपस्थानकभाजां रणज्झणितिशब्दं कुर्वाणानां घुघुटिकानां ध्वनिच्छलेन । (५) कथयति ॥७५॥ स्वमौज्झ्य भुवि 'निर्वृतौ गतर्मवेत्य सिंहध्वजं,
“यियासुरेनु "तं स्वयं "धुनिशसेविता "स्नेहतः । इतः प्रचलितोऽम्बरोपगतचैत्यशृङ्गध्वना,
ध्वजाङ्गतकेसरी कलयति स्म 'लक्ष्मीमिह ॥७६॥ (१) स्वमर्थात्केसरिणम् । (२) त्यक्त्वा । (३) भूमौ । (४) मोक्षे । (५) यातम् । (६) ज्ञात्वा । (७) महावीरदेवम् । (८) गन्तुमिच्छुः । (९) अनु पश्चात् । (१०) तं जिनम् । (११) निरन्तरचरणसेवकत्वेन । (१२) प्रेम्णः-स्नेहात् । (१३) भूमेः सकाशात् । (१४) प्रस्थितः । (१५) गगनालिङ्गिप्रासादशिखरमार्गेण । (१६) पताकोत्सङ्गसङ्गत आकृत्या कृत्वा स्वयमत उत्प्रेक्षा-सिंहः । (१७) शोभाम् । (१८) धत्ते ॥७६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org