SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २७१ षोडशः सर्गः 'निभाल्य नलिनीधवं स्वविभवेन 'संस्पद्धितां, दधानमधिकं क्रुधोद्भुषितवर्माऽर्चिमिषात् । जिनाधिपतिसद्मना सुरपथे स्वदण्डस्फुर त्करः परिबुभूषया "द्विष इवैष ऊर्वीकृतः ॥७०॥ (१) दृष्ट्वा । (२) सूर्यम् । (३) निजश्रिया सह । (४) स्पर्द्धनशीलताम् । (५) अतिशयेन कोपेनोत्कण्ठकितवपुषा । (६) कान्तिकपटेन । (७) सुरपथे-गगने । (८) स्वस्य यो दण्डः, स एव दीप्यमानपाणिः । (९) पराभवितुं-चपेटादिना इच्छया । (१०) वैरिणः । (११) उच्चैश्चक्रे ॥७॥ 'विजित्वरविभूतिभिः प्रतिपदं परिस्पद्धिनो, *विजित्य जिनंसद्मना जगति वैजयन्तादिकान् । 'द्विषद्विजयबोधिकोऽध्रियत मूनि मन्येऽमुना, "विहारशिखरे 'मरुत्तरलवैजयन्ती व्यभात् ॥७१॥ (१) प्रतिस्पद्धिजयनशीललक्ष्मीभिः । (२) प्रत्यहम् । (३) स्पर्धकरणशीलात् । (४) जित्वा । (५) चैत्येन । (६) विश्वे । (७) इन्द्रप्रासादप्रमुखान् । (८) वैरिणां विजयकरणज्ञापयित्री । (९) धृता । (१०) चैत्यशृङ्गे । (११) पवनचपलपताका ॥७१॥ अहर्दिनमुंदित्वरद्युमणिचण्डिमाडम्बरो द्धरप्रसृमरप्रभाप्रकरतापसन्तापितः । रसं रसितुमम्बराम्बुधिवधूप्रवाहान्तरे, 'दिवि प्रकटितो ध्वजः स्वरसनेव जैनौकसा ॥७२॥ (१) दिनं दिनं प्रति । (२) उदयनशीलस्य रवेश्चण्डताया आडम्बरेणोत्कटाः प्रसरणशीलाः प्रभाः कान्तयस्तासां तप्त्या सन्तापः-सज्वर उष्मा ततः । (३) जलम् । (४) पातुम् । (५) गङ्गाप्रवाहमध्ये । (६) गगने । (७) प्रकटीकृता । (८) पताकारूपस्वजिह्वा ॥७२॥ न कश्चिदुंपलब्धिमान्न जनसंशयच्छेदकृ न कोऽपि च 'शिवंगमी जगति पूर्ववद् ईश्यते । "महोदयविधायकोऽर्हति निषेव्यतां साम्प्रतं, मही "महिमसम्पदां तदयमेक' एवाऽचलः ॥७३॥ सदाऽऽकृतिवपुः पदं परिचरामि यस्य प्रभोः, प्रकाशितमिदं स्वयं जगति तेन मत्स्वामिना । 1.दिनं दिनमु० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy