SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २६८ श्री' हीरसुन्दर' महाकाव्यम् ज्ञात्वा । (५) गङ्गावारिपूरै: । ( ६ ) न विद्यते क्षयो - विनाशो यत्र तादृक्पदस्य-स्थानस्य सम्पल्लक्षणस्य वा आविर्भावस्तस्य वाञ्छया । (७) उपासितुं - सेवितुम् । (८) प्रासादे । (९) पदकमलम् । (१०) शुशुभे । ( ११ ) ऋषभप्रासादे सोपानकैः ॥ ५८ ॥ 'जिनेन्द्रसदनाग्रतोऽद्युतदैँनल्पशिल्पोल्लस त्सुवर्णमणितोरणं शिवसुधाब्धिजाकार्मणम् । "निबद्धमपवर्गपूः प्रथमसाधनप्रक्रमे, 'जिनावनिबिडौजसः किमिह मुक्तिगेहे गिरौ ॥५९॥ (१) ऋषभप्रासादस्याऽग्रे द्वारोपरि । ( २ ) शुशुभे । ( ३ ) अनेकै: विज्ञानै रचिताभिरुसद्दीप्यमानं सुवर्णमणीनां तोरणम् । ( ४ ) मोक्षलक्ष्मीवशीकरणम् । (५) निर्मितम् । (६) मुक्तिनगर्या: । (७) प्रथमस्वीकरणप्रस्तावे | नवीननगरे राज्ञा तोरणं बद्ध्यते इति स्थितिः । ( ८ ) जिनराजस्य । (९) मुक्तेर्भवने । (१०) पर्वते ॥५९ ॥ 'निजस्य बहलीभवत्यपि महोत्सवे 'द्वारि मां, जना असहजा इव प्रतिपदं निबध्नन्त्यमी । "हीति म दु:खितां किमिति वक्तुकामं प्रभोः, पुरः स्थितमुपेत्य "यज्जिननिकेतने तोरणम् ॥६०॥ ( १ ) आत्मीयस्य । (२) अतिसान्द्रीभवत्यपि । ( ३ ) महामहे । ( ४ ) द्वारप्रदेशे, स्थानेस्थाने । (५) बन्धं नयन्ति । ( ६ ) नाशय । (७) दुःखमस्याऽस्तीति, तद्भावम् । ( ८ ) कथयितुं काङ्ङ्क्षन् । ( ९ ) देवस्याऽग्रे । (१०) आगत्य स्थितम् । ( ११ ) मूलप्रासादे ॥६०॥ 'यदीयविभवैः पराजितजगत्त्रयीस्पर्द्धिभिः, 'स्वकीयमुँपदीकृतं विजितवैजयन्तेन किम् । दधार मणिमण्डपं किरणखण्डिताखण्डरुक् प्रचण्डरविमण्डलं "वृषभतीर्थकृन्मन्दिरम् ॥ ६१ ॥ (१) प्रासादसम्बन्धिश्रिया । (२) तिरस्कृतास्त्रैलोक्यसम्बन्धिनः स्पर्द्धाकारिणो यैः । ( ३ ) आत्मीयम् । ( ४ ) ढौकितम् । (५) जितेनेन्द्रप्रासादेन स्वकान्तिभिः । (६) पराभूतं समग्रा कान्तिर्यस्य तादृशस्य प्रचण्डस्य द्रष्टुमप्यशक्यस्य रवेर्मण्डलं येन । (७) युगादिजिनगृहम् ॥६१॥ 'अनन्यशिवकन्यकां मनसि धर्मभूमीभृता, Jain Education International प्रदातुमिह काङ्क्षतोचितवराय कस्मैचन । "स्वयंवरणमण्डपो मणिसुवर्णचित्रश्रिया ऽञ्चितः किमु 'विधापितः स्फुरतिं यन्महामण्डपः ॥६२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy