SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः २६३ (८) उत्कटसंसारवैरिणो भीत्या । (९) आत्मनः शरणे आश्रये समागतम् । (१०) वाञ्छता ॥४०॥ विवेश वशिशर्वरीवरयिता नृणां श्रेणिभिः, समं वरणगोपुरं पुरमिवाँऽवनीवासवः । स “धर्मधरणीपतेरिव निवासवेश्मावली, व्यलोकत पुरः स्फुरज्जिननिकेतपति पुनः ॥४१॥ (१) प्रविष्टः । (२) सूरिः । (३) जनराजीभिः । (४) सार्द्धम् । (५) प्राकारप्रतोलीम् । (६) नगरमिव । (७) राजा । (८) धर्मनृपस्य । (९) वासभवनमालेव । (१०) ददर्श । (११) अग्रे दीप्यमानप्रासादपतिम् ॥४१॥ मृगेन्द्रशरभाङ्कशा: परिभवन्ति मां निर्दया, इमां 'जहि जगत्पतेर्जननि ! दुःखितामुल्बणाम् । इतीव गदितुं 'गजो भजति यानदम्भेन यां, वृषध्वजजिनप्रसूः प्रथममेव "नेमेऽमुना ॥४२॥ (१) सिंहाष्टापदसृणिप्रमुखाः । (२) घ्नन्ति । (३) निर्गता करुणा यत्र तथा । (४) पूर्वोक्ताम् । (५) नाशय । (६) जिनमातः ! । (७) दुःखिभावम् । (८) प्रबलाम् । (९) विज्ञप्तुम् । (१०) हस्ती । (११) वाहनच्छलात् । (१२) ऋषभदेवमाता-मरुदेवा । (१३) पूर्वम् । (१४) सूरिणा । (१५) प्राकारप्रवेशे प्रणता ॥४२॥ यदि( दी)क्षणजितो मृगः श्रित इवोऽङ्ककायः क्रम, 'मृगध्वजजिनं ततः प्रमुदितः स तं नेमिवान् । जिनेन्द्रमजितं पुनर्न जितमांन्तरैर्वैरिभिः, कदाचिदपि पद्मिनीप्रियतमस्तमित्रैरिव ॥४३॥ (१) यन्नेत्रेण निर्जितः । (२) लाञ्छनवपुः । (३) चरणम् । (४) शान्तिनाथम् । (५) हृष्टः । (६) नमति स्म । (७) न पराभूतम् । (८) कर्मादिवैरिभिः । (१) भानुरिव । (१०) अन्धकारैः ॥४३॥ स सिद्धगृहवज्जिनं प्रणमति स्म पृथ्वीधर ___ प्रणीतजिनमन्दिरे 'मुनिपुरन्दरः सम्मदात् । 'प्रधान इव पर्षदं क्षितिपतिं स छीपाभिधां, समेत्य वसतिं पुर्नर्जिनसुधांशुमाराधयत् ॥४४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy