________________
२६४
श्री हीरसुन्दर' महाकाव्यम् (१) सिद्धालये इव । ( २ ) पेथडदेसाधुनिष्पादितप्रासादे । (३) सूरिः । (४) हर्षात् । (५) सचिव इव । (६) सभाम् । (७) राजानम् । (८) छीपावसतिम् । (९) जिनचन्द्रम् । (१०) उपासामास ॥४४॥ अवन्दत स टोकराभिधविहार तीर्थेश्वरं,
पुनः प्रभुमबीभजद्वसतिमेत्य मोह्लाभिधाम् । विलोक्य च कपर्दिनं सकलसङ्घविघ्नच्छिदं,
परं गिरिमिवाऽर्बुदादिमविभुं स्तवैरस्तवीत् ॥४५॥ (१) टोकराविहारे जिनम् । (२) मोलासाधुवसतौ । (३) कपर्दिनामानं यक्षम् । ( ४ ) सङ्घलोकानां विघ्ननिवारकम् । (५) अन्यम् । (६) पर्वतमिव । (७) अबुदजिनम् ॥४५॥ सरस्यनुपमाभिधे शिखरिशेखरे 'मानसा
ह्वये तहिनमेदिनीधर इव क्षिपन्नक्षिणी । ततः समधिरूढवान्स शिखरं स्वरारोहणा
भिधं धृतमिवाऽमुना स्वरधिरोहणायाँऽङ्गिनाम् ॥४६॥ (१) अनुपमदेवीकारिते अनुपमतटाके । (२) शैलस्याऽग्रभागे । (३) हिमाचले । (४) मानससरसीव । हिमाद्रौ सद्भावः पूर्वं चम्पूकथायां प्रोक्तः । (५) स्वर्गारोहणं नाम शृङ्गम्। (६) स्वर्गेऽधिरोहणार्थम् । (७) भव्यानाम् ॥४६॥ समेत्य मणिसेतुना वृषभकूटमभ्रषं,
विवेश वरणान्तरं किमवर्गपूर्गोपुरम् । विलोक्य स तदन्तिके सचिववस्तुपालेन चो
ज्जयन्तमवतारितं प्रणमति स्म तत्रोंऽर्हतः ॥४७॥ (१) रत्नपद्यया । (२) ऋषभकूटम् । (३) गगनमप्युल्लिखत् । (४) प्राकारमध्ये । (५) मोक्षनगरप्रतोलीमिव । (६) प्राकारसमीपे । (७) वस्तुपालप्रधानेन । "प्रणीय विषयं दृशोरिह कुमारदेवी भुवोज्जयन्त" इत्यादि पाठः । कुमारदेवीभुवा-वस्तुपालेन अवतारितं रैवताचलं नयनयोर्गोचरं कृत्वा इह प्राकारपार्वे । (८) तत्र-वस्तुपालवसतौ । (९) नेमिनम् । (१०) ननाम ॥४७॥ ततः 'खरहताभिधां वसतिमभ्युपेत्य प्रभुः,
स्ववासत इवाँऽऽगतं रचनयाऽत्र 'नन्दीश्वरम् । सराजिमतिकां स्फुरच्चतुरिकां पुनर्नेमिनो,
'निभाल्य 'जिनपुङ्गवानिह तमामैनंसीन्मुदा ॥४८॥ 1. टोटरा० हीमु० । 2. मौल्हा० हीमु० । 3. ०न्तरे. हीमु० ।
Jain Education International
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org