SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २६२ श्री हीरसुन्दर' महाकाव्यम् प्रभोः शिरसि भूरुहैर्विदधिरे 'छदैछॉयिका, निरुद्धरविरश्मिभिः सहचरैरिव स्वांशुकैः । “अवीज्यत पुनर्जनः क्वचन तालवृन्तैरिव, __"प्रसारिझरेशीकरा कलितलोलरम्भादलैः ॥३७॥ (१) सूरेमस्तके । (१) वृक्षैः । (३) पत्रैः कृत्वा । (४) 'छांहडी'ति जनप्रसिद्धया । (५) निरुद्धा अदृश्यीकृताः सूर्यस्य करा यैः । (६) सेवकैः । (७) निजवसनैः । (८) वीजितः । (९) व्यजनैरिव । (१०) प्रसरणशीलनिर्झरजलकणाकलितचपलमोचापत्रैः ॥३७॥ 'विदग्धविहगा जयारवर्मुदीरयन्त्य॑ध्वनि, स्तुतिव्रतजना इाऽन्तरभिमातिभेत्तुः प्रभोः । क्वचिन्निचितमारुतोपचितकीचकानां कृणै गुरोर्गुणगणः पुनर्गिरिसुरैरिवोद्गीयते ॥३८॥ (१) पण्डितविहङ्गाः । ( २ ) जयशब्दान् । (३) कथयन्ति । ( ४ ) मार्गे । (५) मागधा इव । (६) अन्तरङ्गवैरिभेदकस्य । (७) परिपूर्णं यथा स्यात्तथा वातैः पुष्टाः कृता भृता ये सच्छिद्रवंशास्तेषाम् । (८) शब्दैः । (९) पर्वतदेवताभिः । (१०) अतिशयेन गानविषयीक्रियते ॥३८॥ स्वचैत्यचटुलध्वजोपधिकरैः 'किमाकारयन्, प्रभञ्जननमद्रुमैः किमति गौरवं कल्पयन् । 'मनीषिशुकभाषितैरिव सुखागमं प्रश्नयन्, झरज्झरमुदश्रुभाग्गिरिरभूद्गुरोरागमे ॥३९॥ (१) निजप्रासादोपरि पवनकम्प्रकेतुकपटात्करैः । (२) समीरणवेगनमत्तरुभिः । (३) अतिशायिनी भक्तिं नम्रतालक्षणाम् । (४) सृजन् । (५) पण्डितशुकवाग्भिः । (६) सुखेनाऽऽगतमिति प्रश्नं कुर्वन् । (७) निष्पतन्निर्झरा एव हर्षाश्रूणि भजतीति ॥३९॥ क्रमेण 'धरणीभृतः समधिगम्य सोऽधित्यकां, ददर्श वशिनांशशी वरणमम्बरालम्बिनम् । धृतं विमलभूभृतोद्भरभवाभिमातेर्भया ज्जनं स्वशरणागतं किमिह रक्षितुं काङ्क्षता ॥४०॥ (१) शत्रुञ्जयस्य । (२) ऊर्ध्वभूमिम् । (३) प्राप्य । (४) वशात्मनां मध्ये शमामृतैरतिशीतलत्वेन शशी । अलुक्समासः । (५) प्राकारम् । (६) गगनसङ्गिनम् । (७) गिरिणा । 1. ०सीकरा० हीमु० । 2. रिवाकारयन् हीमु० । 3. गत्य हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy