________________
२६१
षोडशः सर्गः जनान्भवनवद्वने 'श्रमनुदेतिधर्माम्बुभिः,
स बिन्दुकितवक्षसो ह्वयति लोलशाखाशयैः ॥३४॥ युग्मम् ॥ (१) क्षरन्निर्झरवारिपूरप्रसारैः शीतलभूमीमध्ये । (२) सूर्यस्य इतस्ततः सर्वतः प्रसरन्तीनां कान्तीनां निकरस्य । (३) दुःखेन चरणं प्रवेशो यत्र । (४) शोभनशीलरम्भाभवने । (५) ताम्बूलानां मण्डपा यत्र । (६) विकसन्तो दृश्यमाना वा बहुविधा वृक्षा आसनानि वा यत्र । (७) विस्तीर्णाः शिलानां समूहः-शैलं ता एव पल्यङ्कास्तैः कलिते । यथा स्नातस्यास्तुतौ-"मन्दरत्नशैलशिखरे" । एतदर्थः-मन्दरेषु मेरुषु पञ्चसुमेरुषु रत्नं श्रेष्ठो यः सुदर्शनाख्यः शैलः-पर्वतस्तस्य शृङ्गे । यद्वा मेरो रत्नशिलानां समूहो यत्र तादृशे शृङ्गे विस्तीर्णानि शैलानि-शिलासमूहास्तान्येव पर्यास्तैर्युक्ते ॥३३॥
___ (१) विकचद्रुमेभ्यः पतत्पुष्पप्रकरस्य रचनया चारूकृते । (२) भृङ्गगुञ्जारवैर्गानं सञ्जातं यस्मिन्पवनकम्पितवल्लीनां नाटकं यत्र । (३) गृहे इव । (४) क्लमापनोदाय । (५) अधिकक्लमजप्रस्वेदजलैः । (६) स-गिरिः । (७) बिन्दुयुक्तं वक्षो येषां । "स्वेदबिन्दुकितनासिकाशिखा" मिति नैषधे । (८) आकारयति । (९) चपलशाखाहस्तैः ॥३४॥ युग्मम् ॥ क्वचिद्विकचकानने मधुपगीतिमिश्रां 'गिरं,
जगुर्मदु फलादनाः श्रुतिसुखां विदग्धा इव । क्वचिच्च ननृतुर्नटा इव शिखण्डिनां मण्डला,
जगर्ज 'जलदः क्वचिकैरिघटेव भूमीभृतः ॥३५॥ (१) कुत्रापि-शत्रुञ्जयमेखलायाम् । (२) भ्रमरगानकरम्बिताम् । (३) वाणीम् । (४) उच्चरन्ति स्म । (५) कीराः । (६) श्रवणयोः सुखकारिणीम् । (७) पण्डिता इव । (८) मयूरगणाः । (९) गर्जति स्म । (१०) मेघः । (११) गिरेनूपस्य वा । (१२) गजराजीव ॥३५॥ मरुन्मिथुनमण्डिता खगविनोदसान्द्रीकृता,
'मरुत्तरुपरम्परा विविधसिद्धसौधान्तरा । 'मणीशिखरशालिनी पुनरनिन्दिताष्टापदा,
*नितम्बविलसद्वनी भगवतोऽऽलुलोके गिरौ ॥३६॥ (१) देवदेवीयुगलालङ्कता । (२) खगानां-पक्षिणां विद्याधराणां वा क्रीडारसेन निबिडीकृता । (३) कल्पवृक्षाणां श्रेणी यत्र । (४) विविधानि स्वर्णरूप्यरत्नमयानि सिद्धानामर्हतां देवविशेषाणां वा सौधानि चैत्यानि गृहाणि वा अन्तरे मध्ये यस्याः । (५) रत्नशृङ्गैः शोभमाना। (६) अक्रूरत्वात्प्रधानाः शरभा यस्यां प्रशस्यस्वर्णा च । अत्रापि मेरोरर्थध्वनिः ।(७) गिरिमेखलायां स्मयमानविपिनम् । (८) सूरिणा । (९) दृष्टम् ॥३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org