SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २५९ षोडशः सर्गः 'चरन्नमृतपत्तनं किमतिदूरभावात्पंथो, __निशि "न्यवसदन्तरोंऽप्रमितसार्थसार्थेशवत् ॥२६॥ (१) तस्मिन्प्रस्तावे । (२) हीरविजयसूरिः । (३) पर्वतस्याऽधोभूमौ । (४) ईश्वरप्रासादे । (५) महेभ्यश्राद्धैः सार्द्धम् । (६) प्रतिष्ठमानः । (७) मोक्षनगरं प्रति । (८) दूरत्वेन । (९) मार्गस्य । (१०) रात्रौ । (११) वसति स्म ।(१२) मध्यमार्गे ।(१३) बहुसार्थयुक्तसार्थनाथ इव ॥२६॥ हरेगदृशामिवोत्पलदृशां लसद्गीतिभिः, पुनर्मुदितनाट्यकृद्धटितताण्डावाडम्बरैः । निनाय निखिला "निशां वशिशशी स धर्मक्रिया _ विनिर्मितिभिरोंश्रये रजनिजानिचूडामणेः ॥२७॥ (१) शक्रस्त्रीणामिव । ( २ ) वनितानाम् । (३) श्रुतिसुखकरगानैः । ( ४ ) दानप्रहृष्टनर्तककृतनृत्याडम्बरैः । (५) सर्वरात्रीम् । (६) अतिचक्राम् । (७) सूरिः । (८) धर्मानुष्ठानकरणैः । (९) प्रासादे । (१०) शम्भोः ॥२७॥ गते तमसि तद्रेिरिव निरीक्षणात्तत्क्षणात्, । खगैर्गरुजयारवे किम कतेऽथ सांराविणे । समीयुषि खरत्विषि द्विषि निशां नभोमण्डलं, विधित्सति "सहाऽमुना विमलशैलयात्रामिव ॥२८॥ सुधाशनपथातिथिं 'शिवनिकेतनिःश्रेणिका मिव व्रतिशतक्रतुर्विंमलशैलपद्यां ततः । 'सबालवरवर्णिनीनिवहनैकतू( तौ )र्यत्रिका नुयातजनसंयुतः समधिरोढुमारब्धवान् ॥२९॥ युग्मम् ॥ (१) लोकान्निःसृते । (२) ध्वान्ते पापे च । "तमोऽज्ञानेऽन्धकारेऽथे''त्यनेकार्थः । (३) शत्रुञ्जयदर्शनात् । (४) पक्षिभिः । (५) जय जय शब्दे इव । (६) मिश्रास्पष्टशब्दे। (७) सम्प्राप्ते । (८) सूर्ये । (९) वैरिणि । (१०) रात्रीणाम् । (११) गगनोत्सङ्गम् । (१२) कर्तुमिच्छतीव । (१३) गुरुणा सार्द्धम् ॥२८॥ (१) देवमार्गो-गगनं, तत्र पान्थीम् । नभोमिलिता इत्यर्थः । (२) मुक्तिगृहे निःश्रेणी त्वधिरोहिणी । (३) सूरिः । (४) शत्रुञ्जयपाजाम् । (५) सह शिशुकुमारकुमारिकाप्रधानस्त्रियः। धर्मकारकत्वात्प्राधान्यम् । तासां समूहस्तथा बहवो ये गीतनृत्यवाद्यत्रयेण सहिता लोकास्तैर्युतः । (६) प्रारम्भयति स्म ॥२९॥ 'द्विः ॥ 1. ०मण्डले हीमु०। + युग्ममित्यर्थे द्विरिति निर्दिष्टम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy