SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २५८ श्री हीरसुन्दर' महाकाव्यम् __ (१) हर्षोत्कर्षपुष्टः । (२) सूरेश्चरणकमलम् । (३) अ व )वन्दे । (४) भ्रमरवत् । (५) महानुदयो मोक्षश्च स एव मकरन्दरसस्तस्य पानाभिलाषी । (६) पूज्यपूजा( पादा )तिक्रमणम् । (७) यत्कारणात् । (८) भवति । (९) कल्याणाय ॥२२॥ वशारसिकगीतिभिर्विविधवाद्यमाद्यद्रवै रखण्डकृतताण्डवैर्मुदितबन्दिवृन्दस्तवैः । समं प्रमुदितैर्जनैः प्रभुरितः प्रतस्थं गिरि, सुरासुरनरोत्करैरिव जिनावनीवासवः ॥२३॥ (१) स्त्रीणां सरसगानैः । (२) नानाप्रकारवादित्रशब्दैः । (३) अस्खलितनिर्मितनाटकैः । (४) हृष्टमङ्गलपाठकप्रकरस्तुतिभिः । (५) सूरिः । (६) त्रिजगज्जनैः । (७) जिनेन्द्रः । "महोक्षलक्ष्मा जिनः" इति वा पाठस्तदा ऋषभजिनः ॥२३॥ तदा मुदितमानसा निखिलयात्रिकाणां गणा, उपेत्य तलहट्टिकां शिवपुरस्य सीमामिव । प्रसूनमणिमौक्तिकैः समर्मवर्द्धयन्भूधरं, पृषद्भिरमराचलं 'मथितवाद्धिवेला इव ॥२४॥ (१) सूरिप्रस्थानावसरे । (२) हृष्टसङ्घलोकाः । (३) आगत्य । (४) मोक्षपुरस्य । (५) सीमा-समीपभूः । (६) पुष्परत्नमुक्ताफलैः । (७) समकालम् । (८) वर्द्धयन्ति स्म । (९) जलकणैः । (१०) मेरुम् । (११) मथनावसरे । अन्यदा समुद्रे मेरोरसम्भवः समुद्रपयोवृद्धिभिः ॥२४॥ 'निपीय नगपुङ्गवं 'विकचनेत्रपत्रैर्भव स्थितै विककुञ्जरैरपि तनूलतालम्बिभिः । *व्यपेतभवविग्रहैरिव समग्रलोकाग्रगै रलम्भि "भुवि 'निर्वृतिर्यदिह तत्र चित्रं "महत् ॥२५॥ (१) सादरमवलोक्य । (२) शत्रुञ्जयम् । (३) स्मेरनयनैः । (४) संसारे वसद्भिरपि । (५) प्रधानभव्यैः । (६) शरीरयष्टीयुतैरपि । (७) गतसंसारशरीरैः । (८) सर्वलोकस्याऽग्रं सिद्धस्थानं, तत्र गतैः । अर्थात्सिद्धैरिव । (९) प्राप्ता । (१०) भूमौ । (११) निर्वृतिर्मुक्तिः सुखं च । (१२) महान् विस्मयः ॥२५॥ ततः श्रमणशर्वरीपर्तिरुपत्यकायां गिरे ___ गिरीशसदनान्तरे सह महेश्वर श्रावकैः । 1. ०मौक्तिकैर्धरमवर्धयन्बिन्दुभिस्तटावनिधरं पयोनिधिविवृद्धवेला इव । हीमु० । 2. ०श्वरैर्भावुकैः हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy