SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः २५७ (१) अश्वाः, गजाः, प्रकृष्टरथास्तथा करभाः, वृषभाः, वेगसरा लोके 'खचरा' इति प्रसिद्धास्तेषां समूहैस्तथा पादचारिभिश्च परिपूर्णा । (२) पादलिप्तनगरसमीपभूमी । (३) सञ्जाता। (४) जित्वरनृपराजधानीव ॥१८॥ 'जडीकरणभीतितो हिमगिरेः प्रणश्याऽऽगतं, सरः किमिह 'मानसं सकुलहंसमालाकुलम् । समग्रसुखसम्पदभ्युदयसिद्धगोत्रान्तिके, व्यभूषि ललिताभिधं सर उपेत्य सङ्गैः समम् ॥१९॥ (१) "जडो मूर्खे हिमाघ्राते मूकेऽपि चे" त्यनेकार्थः । मूर्जीकरणस्य मूकीकरणस्य वा भयात् । (२) नंष्ट्वा (३) मानसं नाम सरः । (४) वंशान्वितहंसैतम् । (५) समस्तसुखसम्पत्तीनामाविर्भावो यस्मात्तादृशः सिद्धाद्रेः समीपे । (६) शोभितम् ।(७) ललितसरोवरम् । (८) आगत्य । (९) समकालम् । “सदा हंसाकुलं बिभ्रन्मानसं प्रचलज्जलम् । भूभृन्नाथोऽपि नायाति यस्य साम्यं हिमाचल:'' ॥ इति चम्पूकथायाम् ॥१९॥ गजा इव जनास्ततः सलिलकेलिमातन्वते, पिबन्ति च 'पिपासिताः सलिलमत्र पान्था इव । 'विजृम्भिजलजावलिं कुसुममालिकां मालिका, इवाऽवनिरुहां पुनः क्वचन केचिदुच्चिन्वते ॥२०॥ 'तरन्ति च सितच्छदा इव परे 'मृगाक्षीसखा, विशन्ति रसिकाः पुनस्तिमिगणा इवाँऽन्तर्जलम् । 'तपर्तुरवितापिता इव मुदा प्लवन्ते परे, - "चिरेण मिलितेष्टवजहति नास्य पार्वं पुनः ॥२१॥ युग्मम् ॥ (१) तस्मिन्सरसि । (२) जलक्रीडाम् । (३) कुर्वन्ति । (४) तृषिताः । (५) पथिकाः । (६) विकचकमलमालाम् । (७) पुष्पश्रेणीम् । (८) तरुणम् । (९) गृह्णन्ति ॥२०॥ (१) प्लवन्ते । (२) हंसाः । (३) स्त्रीसहिताः । (४) मध्ये यान्ति । (५) क्रीडारसाकलिताः । (६) मत्स्यव्रजा इव । (७) जलमध्ये ।(८) ग्रीष्मकालसूर्यतापसन्तापिताः । (९) तरन्ति । (१०) चिरकालेन ।(११) सङ्गतप्रियस्येव । (१२) त्यजन्ति । (१३) ललितसरसः । (१४) समीपम् ॥२१॥ प्रमोदभरमेदुरः प्रथममेव सङ्घस्तदा, स हीरविजयव्रतिक्षितिपतेः पदाम्भोरुहम् । अचुम्बदैलिवन्महोदयमरन्दपानाभिको, गुरुक्रमविलङ्घनं यदुंदयेत न श्रेयसे ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy