SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २५६ श्री हीरसुन्दर' महाकाव्यम् 'पुरः प्रचलितैर्जनैर्घननिरुद्धवर्त्मान्तरः, १२ पुनः प्रणुदितस्तमां द्रुतमुपेत्य पश्चात्तनैः । "अमन्यत तदा 'हृदा 'वचन "यात्रिकः "स्वं " भ्रमद्धरट्टघटितं "क्षणं "कणमिवाऽतिसङ्घट्टितः ॥ १५॥ ( १ ) अग्रे प्रस्थितैः । (२) बहुभिः [लोकैः ] । ( ३ ) घनं नीरन्ध्रं - अन्तरालरहितं रुद्धःअतिसङ्कीर्णतया गन्तुमयोग्यीकृतः अपरमार्गः । (४) अतिशयेन प्रेरितः । ( ५ ) शीघ्रमागत्य । (६) पृष्ठस्थितैः । द्रुतं प्रस्थितैः । (७) अज्ञासीत् । ( ८ ) मनसा । ( ९ ) कुत्रचित्प्रदेशे । ( १० ) सङ्घजनः कश्चित् । ( ११ ) आत्मानम् । ( १२ ) भ्रमणीकुर्वाणे घरट्टे-दलनोपकरणे योजितम् । ( १३ ) क्षणमात्रम् । ( १४ ) धान्यकणमिव । (१५) पश्चात्तनैः पुरस्तनैश्च जनैरतिसङ्कीर्णत्वात्पीडितः ॥१५॥ 'चतुर्जलधिमेखलावनिनिकेतलोकैस्ततः, 'समीपैमवनीभृतः सम्मलम्भि 'शोभां 'पराम् । 'पुरन्दरगिरेरिवोऽखिलचतुर्निकायामरै "जिनेन्द्रजननाभिषिञ्चनमहोत्सवप्रक्रमे ॥ १६॥ (१) चत्वारः समुद्रा रस ( श ) ना यस्यास्तादृश्यां भूमौ गृहं येषां तादृशैर्जनैः । (२) पार्श्वम् । ( ३ ) शत्रुञ्जयस्य । ( ४ ) समकालम् । (५) अद्वैताम् । ( ६ ) लक्ष्मीम् । (७) प्रापिता । (८) मेरो: । (९ ) समस्तभवनपति - व्यन्तर- ज्योतिष्क- वैमानिकदेवैः । (१०) तीर्थकृज्जन्माभिषेकोत्सवप्रस्तावे ॥१६॥ 'धराधिविबुधेरिता किमु सहैव सङ्केतभाक्किमत्र 'सुकृतैरुत व्रतिपतेरिवाऽऽकर्षिता । 'शताङ्गमुखवाहनानुगतयौवतभ्राजिनां, 'यदेकसमये तर्तिस्तनुमतामुपेता गिरौ ॥ १७ ॥ ( १ ) पर्वताधिष्ठायकसुरैः प्रेरिताः । ( २ ) समकालम् । (३) सङ्केतं भजतीति । ( ४ ) शत्रुञ्जये । (५) पुण्यैः । (६) अथवा । (७) आकृष्याऽऽनीता । (८) रथप्रमुखयानैर्युतैः स्त्रीसमूहैः शोभनशीला [ ना]म् । (९) यस्मात्कारणात् । (१०) एकस्मिन्नेव काले । ( ११ ) जनगण: । ( १२ ) समागताः ॥१७॥ 'तुरङ्गममतङ्गजाग्रिमशताङ्गरङ्गन्मरु Jain Education International प्रियोक्षतरवेसरोत्करपुरस्सरप्राञ्चिता । 'पुरीपरिसरावनी 'समजनिष्ट सङ्ग्रागमे, तदा विजयिमेदिनीरमणराजधानीव सा ॥१८॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy