SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः २५३ 'यदीयविभवैर्जगत्त्रयपुरीपराभावुकैः, पुरी त्रिदिवसद्मनां परिभवं भराल्लम्भिता । "उपास्तिर्मतनोन्निजाश्रयजुषस्त्रिलोकीसृजः, सरोजवसतेरिवाऽऽकलयितं स्वयं तत्तुलाम् ॥४॥ (१) पुरीश्रीभिः । (२) त्रैलोक्यनगरीजित्वरैः । (३) अमरावती । (४) निर्जिता। (५) सेवाम् । (६) चकार । (७) आत्मैवाऽऽश्रयं-स्थानं सेवते इति । (८) त्रिजगद्विधातुः । (९) ब्रह्मणः । (१०) प्राप्तुम् । (११) पादलिप्तपुरसाम्यम् ॥४॥ सुरादिपरिवारिता किममरावती स्वर्गतः, 'क्षमाङ्कमुपजग्मुषी विमलजलयात्राकृते । "द्विजिह्वनिचिताश्रयं किमु विहाय गेहं बले 'रुतं क्षिति]मितं पुरं स्फुरति पादलिप्ताभिधम् ॥५॥ (१) देवादिभिर्युता । आदिशब्दात्सुरपत्नी-सुरेन्द्र-मन्दिर-कोट्ट-वापी-तटाकप्रमुखैः कलिता । (२) सुरपुरी । (३) स्वर्गात् । (४) भूमेर्मध्यमुत्सङ्गं वा । (५) समागता । (६) श्रीशत्रुञ्जयस्य यात्रां कर्तुंम् । (७) द्विजिलैः -दुर्जनैालैर्वा भरितमाश्रयं स्वस्थानं वा । (८) त्यक्त्वा । (९) नागनगरी । (१०) अथवा । (११) इतमागतम् ॥५॥ 'भवाहितभिदोदयत्परमसातमाशंसतां, पुरी 'निजनिवासिनामसुमतां समूहानसौ । महोदयमहापुरं 'विमलशैलमूलाध्वना, . निनीषुरमुना किमु "स्थितवती समेत्याउँन्तिकम् ॥६॥ (१) संसाररिपोर्मारणेन प्रकटीभवत् । (२) उत्कृष्टं सुखम् । (३) वाञ्छताम् । (४) स्वस्यां वसनशीलानाम् । (५) जनानाम् । (६) गणान् । (७) प्रत्यक्षलक्ष्याऽसौ । (८) मुक्तिनामाद्वैतनगरम् । (९) शत्रुञ्जयरूपेण प्रध्वरेण मार्गेण । (१०) प्रापयितुं काङ्क्षन् । (११) स्थितिं कृतवती । (१२) समागत्य । (१३) शत्रुञ्जयसमीपम् ॥६॥ विजित्य निजवैभवैः 'सुरनरोरगस्वामिनां, स्फुरत्पुरपरम्परा जगति पादलिप्तं पुरम् । 'परःशतजिनेश्वराश्रयशिखाङ्गणालिङ्गिनी द्विषद्विजयबोधिका व्यधृत वैजयन्तीरिव ॥७॥ (१) जित्वा । (२) स्वशोभया । (३) देवमानवदानवादिपुरन्दराणाम् । (४) 1. क्षितौ किमुप० हीमु० । 2. रुतागतमिह श्रिया स्फुरति पादलिप्तं पुरम् हीमु० । 3. ०के हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy